गोयलेन अमेरिकीय-वाणिज्यप्रतिनिधिना जैमीसनग्रीरेण सह साक्षात्कारः, व्यापारसन्धे: विषये चर्चा
— वाणिज्यमन्त्रिणा जी-२०-सभायाः पार्श्वे ब्राजील-मेक्सिको-देशयोः मन्त्रिभ्यां सहापि कृतं द्विपक्षीयं मेलनम् नवदिल्ली/वाशिङ्ग्टनम्, १ अक्टोबरमासः (हि.स.)। केन्द्रीय-वाणिज्योद्योगमन्त्री पीयूषगोयलेन विस्कॉन्सिन-राज्यस्य मिल्वॉकीनगरे आयोजितस्य जी-२०-
अमरीकी व्यापार प्रतिनिधि जैमीसन ग्रीर से मुलाकात करते पीयूष गोयल


यूरोपीय कमिश्नर मारोश शेफकोविच से बातचीत करते पीयूष गोयल


— वाणिज्यमन्त्रिणा जी-२०-सभायाः पार्श्वे ब्राजील-मेक्सिको-देशयोः मन्त्रिभ्यां सहापि कृतं द्विपक्षीयं मेलनम्

नवदिल्ली/वाशिङ्ग्टनम्, १ अक्टोबरमासः (हि.स.)। केन्द्रीय-वाणिज्योद्योगमन्त्री पीयूषगोयलेन विस्कॉन्सिन-राज्यस्य मिल्वॉकीनगरे आयोजितस्य जी-२०-वाणिज्यमन्त्रिस्तरीयसम्मेलनस्य अवधौ अमेरिकीय-वाणिज्यप्रतिनिधिना जैमीसनग्रीरेण सह मेलनं कृतम्। अस्मिन् मिलने द्विपक्षीयव्यापारसन्धिविषये चर्चा अभवत्।

पीयूषगोयलेन सामाजिक-माध्यमे ‘एक्स’-पटले प्रकाशिते सन्देशे लिखितं यत् मिल्वॉकीनगरे जी-२०-वाणिज्यमन्त्रिणां सभायाः अवधौ यूएसटीआर जैमीसन ग्रीरेण सह मेलनम् अभवत्। अस्मिन् मेलने भारत-अमेरिकयोः द्विपक्षीयव्यापारसन्धे: अन्तर्गतं द्वयोः देशयोः कृते अन्तरिमसन्धि: शीघ्रं सम्पन्नं कर्तुं दिशि लाभप्रदा सार्थकी च चर्चा अभवत्।

वाणिज्यमन्त्रिणा उक्तं यत् अमेरिकीय-अध्यक्षतायां प्रचलितासु जी-२०-चर्चासु अपि विचाराणाम् आदान-प्रदानं कृतम्। तदतिरिक्तं जी-२०-वाणिज्य-मन्त्रिणां सभायाः अवधौ व्यापारस्य आर्थिकसुरक्षायाश्च यूरोपीय-आयुक्तेन स्वीयेन मित्रेण च मारोश-शेफकोविचेन सह मेलनं कृत्वा प्रसन्नता अभवत्।

सः अग्रे अवदत् यत् भारत-यूरोपीय-सङ्घयोः मुक्तव्यापारसन्धे: हस्ताक्षरं तस्य च कार्यान्वयनं प्रति प्राप्तस्य प्रगतेः समीक्षा कृता। तदतिरिक्तं भारत-यूरोपीय-सङ्घयोः व्यापार-प्रौद्योगिकी-परिषदः अन्तर्गतं प्राप्तप्रगतेः, विश्वव्यापारसङ्घटने सार्थक-सुधारस्य तथा जी-२०-सङ्घस्य सामूहिकप्राथमिकतानां विषये अपि विचारविमर्शः कृतः।

तदतिरिक्तं केन्द्रीय-वाणिज्यमन्त्रिणा ब्राजील-मेक्सिको-देशयोः स्वसमकक्षैः सह द्विपक्षीयसभाः कृताः। गोयलेन बुधवासरे मिल्वॉकीनगरे जी-२०-वाणिज्यमन्त्रिणां सभायाः पार्श्वे ब्राजीलस्य वाणिज्यमन्त्रिणा मार्सियो फर्नान्डो एलियास रोजा इत्यनेन विदेशमन्त्रिणा माउरो विएरा इत्यनेन च सह मेलनं कृतम्। एतयोः देशयोः उपरि अमेरिकया स्वीकृतायाः शुल्कनीतेः पर्याप्तः प्रभावः अभवत्।

Hindusthan Samachar / Divya Ranjan