Enter your Email Address to subscribe to our newsletters

कानपुरम्, 02 अक्टूबरमासः (हि.स.)।
महात्मागान्धिनः लालबहादुरशास्त्रिणश्च जीवनं सरलतायाः, त्यागस्य राष्ट्रसेवायाश्च आदर्शस्वरूपमस्ति। तयोः आदर्शान् मूल्यानि च स्वजीवने आचरितुं सहैव प्रशासनिककार्येषु सेवा, संवेदनशीलता, पारदर्शिता जनहितभावना च सर्वोच्चप्राथमिकतां प्राप्नुयुः। एतद् जिलाधिकारी महेन्द्रसिंहतंवरः शुक्रवासरे समाहरणालयपरिसरे आयोजिते गान्धिजयन्तीपूर्वप्रधानमन्त्रिणः लालबहादुरशास्त्रिणश्च जयन्तीकार्यक्रमे उक्तवान्।
जिलाधिकारी महोदयः महात्मागान्धिनः प्रतिमायां माल्यार्पणं कृत्वा श्रद्धाञ्जलिम् अर्पितवान् तथा लालबहादुरशास्त्रिणः चित्रे पुष्पाञ्जलिं समर्पितवान्। ततः स्वतन्त्रतासङ्ग्रामसेनानीनां परिजनाः शालेन परिधाप्य सम्मानिताः। कार्यक्रमे बालकेभ्यः मिष्टान्नानि चॉकलेट् च वितरितानि।
जिलाधिकारी उक्तवान् यत् गान्धिजी सत्यस्य अहिंसायाश्च माध्यमेन देशस्य स्वातन्त्र्यसङ्ग्रामाय नूतनां दिशां प्रदत्तवान्। सः देशवासिषु ऐक्येन आङ्ग्लशासनस्य विरुद्धं सङ्घर्षं कर्तुं विश्वासं जागरितवान्। नेताजी सुभाषचन्द्रबोसेन गान्धिजीं ‘राष्ट्रपिता’ इति सम्बोधनेन आहूतवान् इत्यस्य उल्लेखं कुर्वन् जिलाधिकारी उक्तवान् यत् गान्धिजी केवलम् एकः व्यक्तिः नासीत्, अपि तु सः एकः विचारः विशिष्टं व्यक्तित्वं च आसीत्।
सः उक्तवान् यत् लालबहादुरशास्त्रिणः जीवनमपि सरलतायाः, सौम्यतायाः राष्ट्रसेवायाश्च उदाहरणमस्ति। तेन प्रदत्तः ‘जय जवान, जय किसान’ इति मन्त्रः अद्यापि देशवासिनः प्रेरयति। अनन्तरं तस्मिन् ‘जय विज्ञान’ इति पदं संयोजितम्। भारतं च विज्ञानस्य प्रौद्योगिक्याश्च क्षेत्रे निरन्तरं प्रगतिम् अधिगच्छति।
जिलाधिकारी उक्तवान् यत् प्रधानमन्त्रीमुख्यमन्त्रिणोः नेतृत्वे वर्ष २०४७ पर्यन्तं विकसितभारतस्य परिकल्पनां साकारयितुं लक्ष्यं निर्धारितमस्ति। एतदर्थं प्रत्येकं नागरिकं स्वदायित्वस्य पूर्णनिष्ठया निर्वहणं कर्तव्यम्।
कार्यक्रमे सर्वे अपरजिलाधिकारी, अपरनगरमजिस्ट्रेट्, समाहरणालयस्य अधिकारीकर्मचारिणः, स्वतन्त्रतासङ्ग्रामसेनानीनां परिजनाः बालकाश्च उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani