Enter your Email Address to subscribe to our newsletters

धर्मशाला, १ अक्टोबरमासः (हि.स.)। देशस्य कृते अन्तरराष्ट्रियस्तरे पदकानि विजित-वतां क्रीडकाणां प्रशिक्षणस्य प्रमुख-केन्द्ररूपेण विकसितस्य भारतीयक्रीडा-प्राधिकरणस्य राष्ट्रिय-उत्कृष्टता-केन्द्रस्य धर्मशालायाम् अधुना क्रीडकाणां कृते ‘सोना-बाथ’-सुविधा उपलब्धा भविष्यतीति आशा जागृता अस्ति। एशियाई-क्रीडासु भारतीयमहिला-कबड्डी-दलेन स्वर्णपदकं प्राप्तम्, तस्याः दलस्य नायकसहितं धर्मशाला-केन्द्रस्य त्रयाणां क्रीडकानां एकस्मिन् समये पदक-विजयस्य अनन्तरं केन्द्रेण एतां सुविधां प्रारब्धुं प्रक्रिया आरब्धा अस्ति। अस्याः सुविधायाः कृते साई-चण्डीगढेन सह पत्राचारः क्रियते।
एनसीओई-धर्मशालायां दीर्घकालात् अन्ताराष्ट्रियस्तरस्य क्रीडकाः प्रशिक्षणं गृह्णन्ति। अत्र प्रशिक्षिताः क्रीडकाः देशे विदेशे च आयोज्यमानासु प्रमुखासु प्रतियोगितासु पदकानि विजित्य केन्द्रस्य नाम गौरवान्वितं कुर्वन्ति। तथापि प्रशिक्षणा-नन्तरं शरीरस्य श्रमं मांसपेशीनां च तनावं दूरीकर्तुं प्रयुज्यमाना ‘सोना-बाथ’-सुविधा क्रीडकेभ्यः उपलब्धा नासीत्। अधुना एशियाई-क्रीडासु धर्मशाला-केन्द्रस्य क्रीडकाणाम् उत्कृष्ट-प्रदर्शनानन्तरम् एतां न्यूनतां दूरीकर्तुं प्रयासः आरब्धः अस्ति।
क्रीडाविशेषज्ञानाम् अनुसारं ‘सोना-बाथ’ क्रीडकाणां कृते अत्यन्तोपयोगी सुविधा अस्ति। अस्यां उष्णजलेन वाष्पेन च शरीराय विश्रान्तिः दातुं, मांसपेशीनां जडतां न्यूनीकर्तुं तथा कठिनप्रशिक्षणस्य अथवा प्रतियोगितायाः अनन्तरं शरीरं पुनः सज्जीकर्तुं साहाय्यं भवति। अन्ताराष्ट्रिय-स्तरस्य क्रीडकाणां प्रशिक्षणे पुनर्वासस्य पुनरुत्थानस्य च एतादृशीनां सुविधानां महत्त्वपूर्णा भूमिका भवति। निरन्तरम् अभ्यासं प्रतियोगितासु च भागं गृह्णतां क्रीडकानां शीघ्रपुनरुत्थानेन प्रशिक्षणस्य निरन्तरता अपि निर्वोढुं साहाय्यं भवति।
एनसीओई-धर्मशालायाः उपयोगितायाः अनुमानं तेनैव कर्तुं शक्यते यत् अत्र प्रशिक्षणं गृह्णन्तः क्रीडकाः न केवलं राष्ट्रियासु, अपि तु अन्ताराष्ट्रियासु प्रतियोगितास्वपि देशस्य प्रतिनिधित्वं कुर्वन्ति। एशियाई-क्रीडासु धर्मशाला-केन्द्रसम्बद्धानां त्रयाणां क्रीडकानां एकस्मिन् समये भारतीयदले सम्मिलितानां सता पदकविजयः केन्द्रस्य प्रशिक्षणव्यवस्थायाः क्षमतामपि दर्शयति। अतः क्रीडकाणां कृते आधुनिकप्रशिक्षणस्य सह उत्तमाः पुनर्वास-पुनरुत्थान-सुविधाः उपलब्धाः करणीयाः इति आवश्यकता निरन्तरम् अनुभूयते।
एनसीओई-सहायकनिदेशकः जेपी साहनी अवदत् यत् क्रीडकाणां कृते ‘सोना-बाथ’-सुविधां प्रारब्धुं प्रक्रिया आरब्धा अस्ति। अस्मिन् विषये साई-चण्डीगढेन सह पत्राचारः क्रियते। क्रीडकेभ्यः उत्तम-सुविधानाम् उपलब्धीकरणं केन्द्रस्य प्राथमिकता अस्ति तथा आवश्यक-प्रक्रियायाः पूर्णतायाः अनन्तरं सुविधा प्रारब्धुं पदानि स्वीकरिष्यन्ते।
Hindusthan Samachar / Divya Ranjan