Enter your Email Address to subscribe to our newsletters

प्रदेशस्य ३५ सहस्राधिकाः गोपालकाः राज्यस्तरीये सम्मेलने भागं ग्रहीष्यन्ति
भोपालम्, ०२ अक्टोबरमासः (हि.स.)। मध्यप्रदेशे दुग्धक्रान्तेः सूत्रपाताय केन्द्रीयसहकारितागृहमन्त्री अमितशाहः तथा मुख्यमन्त्री डॉ. मोहनयादवः शनिवासरे ०३ अक्टोबरदिनाङ्के भोपालनगरे गोपालकसम्मेलनस्य शुभारम्भं करिष्यतः। पशुपालनदुग्धविकासविभागेन भेलदशहरामैदाने आयोजिते सम्मेलने प्रदेशस्य विभिन्नेभ्यः क्षेत्रेभ्यः गोपालकाः सहभागितां करिष्यन्ति।
जनसम्पर्काधिकारी सुनीलवर्मा शुक्रवासरे सूचनां दत्त्वा उक्तवान् यत् कार्यक्रमे केन्द्रीयसहकारितागृहमन्त्री शाहः पशुपालनक्षेत्रे उत्कृष्टं कार्यं कुर्वतीः गोपालकदीदीः सम्मानयिष्यति। सहैव सः डॉ. भीमरावअम्बेडकरकामधेनुयोजनायाः लाभार्थिभ्यः स्वीकृतिपत्राणि वितरिष्यति।
डेयरीसंयन्त्रस्य भूमिपूजनं, किण्वितदुग्धोत्पादसंयन्त्रस्य शुभारम्भश्च
सः उक्तवान् यत् केन्द्रीयसहकारितामन्त्री शाहः उज्जयिन्यां प्रतिदिनं त्रिलक्षलीटरपर्यन्तं प्रसंस्करणक्षमतायुक्तस्य अत्याधुनिकस्य डेयरीसंयन्त्रस्य आभासीमाध्यमेन भूमिपूजनं करिष्यति। भोपालनगरे सज्जीकृतस्य प्रतिदिनं चत्वारिंशत्सहस्रलीटरपर्यन्तं उत्पादनक्षमतायुक्तस्य किण्वितदुग्धोत्पादडेयरीसंयन्त्रस्य तथा मध्यप्रदेशराज्यसहकारीडेयरीमहासंघस्य भोपालपरिसरे निर्मितायाः सहकारीक्षेत्रस्य प्रथमायाः अत्याधुनिकायाः राज्यस्तरीयायाः डेयरीपरीक्षणप्रयोगशालायाः, शिवपुरीस्थितस्य लघुदुग्धसंयन्त्रस्य च शुभारम्भमपि करिष्यति।
दुग्धोत्पादकेभ्यः बोनसधनराशेः वितरणम्
जनसम्पर्काधिकारिणः अनुसारं सम्मेलने भोपालदुग्धसङ्घस्य इन्दौरदुग्धसङ्घस्य च दुग्धोत्पादकेभ्यः बोनसधनराशेः वितरणं करिष्यति। तदतिरिक्तं प्रदेशसर्वकारेण पञ्जीकृतासु सञ्चालितासु च गोशालासु संरक्षितस्य गोवंशस्य संरक्षणाय भरणपोषणाय च २०२६ तमस्य वर्षस्य जुलाई-अगस्तमासयोः अनुदानधनराशिः ऑनलाइन-माध्यमेन प्रत्यक्षलाभान्तरणप्रणाल्या वितरिष्यते।
एषा धनराशिः गोशालासु पञ्जीकृतस्य गोवंशस्य समुचितव्यवस्थापनाय, आहाराय भरणपोषणाय च प्रदीयते।
केन्द्रीयमन्त्री शाहः भोपालबाइपासमार्गे भौरीसमीपे स्थितस्य भारतीयविज्ञानशिक्षातथाअनुसन्धानसंस्थानस्य अर्थात् आईआईएसईआर-अत्रिपरिसरस्य शिलान्यासमपि करिष्यति तथा परिसरे स्थापितस्य स्वामीविवेकानन्दस्य प्रतिमायाः अनावरणं करिष्यति।
Hindusthan Samachar / Dheeraj Maithani