‘रामायण’-चलचित्रे रणबीरकपूरं प्रति मुकेशखन्ना इत्यनेन असन्तोषः व्यक्तः
मुम्बई, १ अक्टोबरमासः (हि.स.)। ‘शक्तिमान्’ इति नाम्ना प्रसिद्धः अभिनेता मुकेशखन्नः नितेशतिवारी-निर्देशितस्य अग्रिमस्य ‘रामायण’-चलचित्रस्य पूर्वाव-लोकनं प्रति असन्तोषं व्यक्तवान्। एकस्मिन् साम्प्रतिके साक्षात्कारे सः चलचित्रस्य युद्धदृश्यानां भगवत:
रणबीर कपूर, मुकेश खन्ना - फोटो सोर्स एक्स


मुम्बई, १ अक्टोबरमासः (हि.स.)। ‘शक्तिमान्’ इति नाम्ना प्रसिद्धः अभिनेता मुकेशखन्नः नितेशतिवारी-निर्देशितस्य अग्रिमस्य ‘रामायण’-चलचित्रस्य पूर्वाव-लोकनं प्रति असन्तोषं व्यक्तवान्। एकस्मिन् साम्प्रतिके साक्षात्कारे सः चलचित्रस्य युद्धदृश्यानां भगवत: श्रीरामस्य चित्रणस्य च विषये प्रश्नान् उत्थापितवान्।

मुकेशखन्ना अवदत् यत् श्रीरामं ‘मर्यादापुरुषोत्तम’-रूपेण प्रदर्शयितुं स्थाने चलचित्रे तं युद्धनायकस्य रूपेण प्रस्तुतं कृतम् अस्ति। वृक्षमारुह्य बाणं प्रक्षिपतः श्रीरामस्य दृश्यस्य उल्लेखं कुर्वन् सः अवदत् यत् एतादृशं चित्रणं भगवत: रामस्य दिव्यया मर्यादितया च प्रतिमया सह न मिलति।

मुकेशखन्ना साक्षात्कारे अवदत् यत् निर्मातारः भगवन्तं रामं सलमानखानस्य, अमिताभबच्चनस्य, रजनीकान्तस्य च सदृशं युद्धनायकस्य रूपेण प्रस्तुतवन्तः। सः अवदत् यत् श्रीरामः सर्वदा शान्तः मर्यादितश्च भवति स्म तथा च समुद्रस्य पुरतः अपि सः हस्तौ संयोज्य मार्गं याचितवान्। अभिनेता चलचित्रस्य युद्धदृश्यानां विषये प्रश्नं कुर्वन् अवदत् यत् यदि रामं चलचित्रस्य युद्धनायकवत् एकाकिनमेव सर्वान् शत्रून् सम्मुखीकुर्वन्तं दर्शयिष्यते, तर्हि रामायणे वानरसेनायाः भूमिकायाः किं महत्त्वं भविष्यति। सः निर्मातृभ्यः भगवान् रामस्य पारम्परिकप्रतिमायाः धार्मिकभावनानां च सम्मानं कर्तुम् आग्रहं कृतवान्।

चलचित्रे प्रयुक्तानां विशालानां दृश्य-प्रभावानाम् विषये अपि मुकेशखन्ना स्वम् असन्तोषं व्यक्तवान्। सः अवदत् यत् भारतीयचलचित्रेषु प्रौद्योगिक्याः सह देशस्य आस्थायै धार्मिकभावनाभ्यश्च अपि महत्त्वं दातव्यम्।

नितेशतिवारिणा निर्देश्यमाणे ‘रामायण’-चलचित्रे रणबीरकपूरः भगवत: रामस्य, साईपल्लवी मातु: सीतायाः, यशः रावणस्य च भूमिकां निर्वहन्ति। चलचित्रे अरुणगोविलः, सनीदेवोलः, रकुलप्रीत-सिंहः, काजलाग्रवालः च महत्त्वपूर्णाः भूमिकाः निर्वहन्ति। चलचित्रं द्वयोः भागयोः प्रदर्शयिष्यते तथा च प्रथमः भागः दीपावल्याः अवसरे चलचित्रगृहेषु प्रदर्शितः भविष्यति।

Hindusthan Samachar / Divya Ranjan