Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १ अक्टोबरमासः (हि.स.)। भारतीयः बल्लेबाज इति रोहितशर्मा २०२७ तमे वर्षे आयोज्यमाने आईसीसी-पुरुष-क्रिकेट्-विश्वकपस्पर्धां प्रति दृष्टिं केन्द्रितवान् अस्ति। प्रतियोगितायाः कार्यक्रमस्य घोषणा अद्य रात्रौ ८:३० वादने जियोहॉटस्टार तथा स्टार स्पोर्ट्स नेटवर्क इत्येतयोः माध्यमेन करिष्यते। जियोस्टार-संस्थया सह वार्तालापे रोहितशर्मणा कप्तानस्य शुभमनगिलस्य नेतृत्वस्य, २०२७ तमस्य विश्वकपस्य सज्जतायाः, भारताय पुनरेकवारं विश्वकपविजयस्य च स्वेच्छायाः विषये चर्चा कृता।
शुभमनगिलस्य नायकत्वस्य विषये रोहितः अवदत् यत् गिलस्य क्रिकेट्-विषयकं चिन्तनं प्रशंसनीयम् अस्ति तथा च कप्तानरूपेण सम्प्रति तस्य प्रदर्शनस्य मूल्याङ्कनं कर्तुं शीघ्रता भविष्यति। सः अवदत्, “शुभमनगिलस्य क्रिकेट्-विषयकं चिन्तनं प्रशंसनीयम् अस्ति, नास्ति अत्र कश्चित् संशयः। सः प्रायः एकवर्षात् कप्तानरूपेण कार्यं करोति, अतः इतः शीघ्रं तस्य कप्तानरूपेण मूल्याङ्कनं कर्तुं न उचितम्। किन्तु यावता मया सः दृष्टः, तावता सः प्रभावशाली एव दृश्यते। सः यत् इच्छति, तस्मिन् विषये सः अत्यन्तं स्पष्टः अस्ति। नायकाय एषा सर्वाधिकमहत्त्वपूर्णा वस्तु अस्ति। यदि नायकस्य स्पष्टदृष्टिः भवति, तर्हि तस्य समीपस्थाः क्रीडकाः अपि स्पष्टतया कार्यं करिष्यन्ति। शुभमनस्य विषये मम एतदेव दृश्यते। सः जानाति यत् तेन किं करणीयम्, सः च सम्यग्दिशि अग्रे गच्छति। निश्चयेन प्रत्येकं नायकं क्रीडकाणां सहायककर्मचारिणां च समर्थनस्य आवश्यकता भवति। अहं विश्वसिमि यत् यथाशक्ति तस्य साहाय्यं करिष्यामि।”
रोहितः गिलं निरन्तरं समर्थयितुं स्वस्य प्रतिबद्धतामपि व्यक्तवान्। सः अवदत्, “शुभमनः नायक: अस्ति, किन्तु तस्य अर्थः न भवति यत् अहं तस्मात् दूरे तिष्ठेयम् अथवा तेन सह न्यूनं सम्भाषणं कुर्याम्। यदा सः पदार्पणं कृतवान्, तदारभ्य वयं समानदिशि अग्रे गच्छावः। एतादृशमेव भवितव्यम्, कस्यापि कारणस्य वशात् अस्मिन् परिवर्तनं न भवेत्। तस्मै दलस्य विश्वासस्य आवश्यकता अस्ति तथा च तेन ज्ञातव्यं यत् सर्वे मिलित्वा अग्रे गच्छन्ति। तस्य समर्थनं कृत्वा दलं अग्रे नेतुम् एव अस्माकं कार्यम् अस्ति।”
२०२७ तमस्य एकदिवसीय-विश्वकप-स्पर्धाया: विजयस्य महत्त्वस्य विषये रोहितः अवदत्, अग्रिमस्या: एकदिवसीय-विश्वकपस्पर्धाया: विजयः अत्यन्तं हर्षदायकः भविष्यति, एतावदेव अहं वक्तुम् इच्छामि। अहम् अधुना तम् पूर्णचक्ररूपेण अथवा एतादृशरूपेण द्रष्टुम् इच्छामि न। भारताय विश्वकपविजयः विशेषः अनुभवः अस्ति। टी-२० प्रारूपे अहम् अस्य अनुभवस्य द्विवारं भागी अभवम्। २००७ तमे वर्षे अहं केवलं २० वर्षीयः युवकः आसम्। निश्चयेन एषा महती प्रतियोगिता अस्ति तथा च प्रथमवर्ष एव विश्वकपविजयः अद्भुतः अनुभवः आसीत्। ततः २०१३ तमे वर्षे वयं चैम्पियन्स-ट्रॉफी-विजयं प्राप्तवन्तः। तदनन्तरं प्रायः ११ वर्षाणां दीर्घः कालखण्डः अभवत्, यदा वयं किमपि आईसीसी-उपाधिं न प्राप्तवन्तः। अतः २०२४ तमे वर्षे यदा वयं टी-२० विश्वकपं विजितवन्तः, तदा एतस्य महत्त्वं कियत् इति अनुभूतम्। सः अनुभवः अद्यापि मम अन्तः बह्वंशेन वर्तते। अहं जानामि यत् विश्वकपं जित्वा कथं भवति। अतः अहं तम् अनुभवम् पुनः प्राप्तुम् इच्छामि। तस्मिन् काले वयं यम् आनन्दम् अनुभूतवन्तः, तस्य वर्णनं शब्दैः कर्तुं न शक्यते, यतः तेन तुलनीयम् अन्यत् किमपि नास्ति। अतः मम कृते सः विश्वकपविजयः अत्यन्तं महत्त्वपूर्णः अस्ति, यतः अहं तम् अनुभवम् पुनः अनुभवितुम् इच्छामि।”
२०२७ तमस्य विश्वकपस्य सज्जतायाः वर्तमानसमये च ध्यानकेन्द्रितस्य विषये रोहितः अवदत्, “अहं २०२७ तमं वर्षं यावत् स्वयम् पर्याप्तरूपेण सक्षमं स्थातुम् इच्छामि। स्वस्थः तिष्ठेयम्, कठिनपरिश्रमं कुर्वन् भवामि तथा च अग्रिमेषु प्रत्येकं प्रतियोगितायाम् उत्तमं प्रदर्शनं कुर्याम्। मया एतदेव चिन्तनीयं करणीयं च। मम तात्कालिकं लक्ष्यं तु इदमेव अस्ति यत् सम्प्रति मम पुरतः यत् अस्ति, तत् सम्यक् कुर्याम्। अधुना एव आगामी-अक्टोबर-मासस्य विषये चिन्तनं मम क्रीडायै साहाय्यं न करिष्यति। यत् मम साहाय्यं करिष्यति, तत् वर्तमानसमये स्थातुम्, पुरतः आगच्छन्तीं प्रत्येकां समस्यां पूर्णां कर्तुं ततः च अग्रे गन्तुम् एव।”
सः अग्रे अवदत्, “जीवने अहं पदे पदे एवं प्रगतिं कृतवान् अस्मि तथा च अधुनापि मया एतदेव करणीयम्। मूलतः अहं वक्तुम् इच्छामि यत् मम किमपि परिवर्तयितुम् आवश्यकता नास्ति। अद्यावधि मम यात्रा यथा अभवत्, तथैव अहं अग्रे गन्तुम् इच्छामि। मम बल्लेबाजी इति प्रति कठिनपरिश्रमं कुर्वन् भवामि, शारीरिक-सामर्थ्यस्य विषये कार्यं करोमि, दलस्य क्रीडकाणां साहाय्यं करोमि तथा च यत्र आवश्यकता भवति तत्र स्वकीयविचारान् ददामि—एतावदेव।”
Hindusthan Samachar / Divya Ranjan