Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 02 अक्टूबरमासः (हि.स.)। केन्द्रीयवस्त्रमन्त्री श्रीगिरिराजसिंहः उक्तवान् यत् वस्त्रोद्योगस्य कारोबारं वर्ष २०३० पर्यन्तं ३५ कोटिडॉलरपर्यन्तं नेतुं लक्ष्यम् निर्धारितम् अस्ति। अस्मिन् २५ कोटिडॉलरपरिमितः घरेलुबाजारस्य कारोबारः तथा १० कोटिडॉलरपरिमितः निर्यातः अन्तर्भवतः।
गिरिराजसिंहेन एतत् वक्तव्यं नवदिल्ल्यां इण्डियाहैबिटेटसेण्टर इत्यत्र आयोजितस्य ‘टेक्सटाइल कॉन्क्लेव’ इत्यस्य उद्घाटनसमारोहे दत्तम्। कार्यक्रमस्य आयोजनं सूक्ष्मलघुमध्यमोद्योगक्षेत्रस्य संरक्षणसंवर्धनयोः कृते कार्यरतया अखिलभारतीयसङ्घटनया लघुउद्योगभारत्या कृतम्।
गिरिराजसिंहः उक्तवान्, “वस्त्रोद्योगः देशे सर्वाधिकरोजगारसृजनं कुर्वन् उद्योगः अस्ति। वर्ष २०१४ मध्ये अस्य क्षेत्रस्य परिमाणं १३८ मिलियनडॉलर् आसीत्, यत् मोदिसर्वकारस्य आगमनानन्तरं १९ कोटिडॉलरपर्यन्तं प्राप्तम्। अधुना सर्वकारस्य दृष्टिः अस्ति यत् अस्य क्षेत्रस्य कारोबारं वर्ष २०३० पर्यन्तं ३५ कोटिडॉलरपर्यन्तं नेतव्यम्। अस्मिन् २५ कोटिडॉलरस्य योगदानं स्वदेशीआपणात् तथा १० कोटिडॉलरस्य योगदानं निर्यातात् प्राप्तुं मार्गचित्रं सज्जीकृतम् अस्ति।”
वैश्विकव्यापारिकपरिस्थितीनां उल्लेखं कुर्वन् गिरिराजसिंहः उक्तवान् यत् सम्पूर्णे विश्वे प्रचलितस्य ‘शुल्कयुद्धस्य’ आर्थिकानिश्चिततायाः च मध्ये भारतसर्वकारः सक्रियतया कार्यं करोति। भारतीयवस्त्रोत्पादानां कृते नूतनावसरान् अन्विष्य सर्वकारेण ४० नूतनदेशाः चिह्निताः सन्ति, यत्र व्यापारं निर्यातं च तीव्रगत्या वर्धयितुं प्रयासः भविष्यति।
हस्ततन्तुहस्तशिल्पयोः विस्तारस्य विषये प्रकाशं कुर्वन् सः उक्तवान् यत् स्थानीयस्तरे निर्मितानां उत्पादानां मागः सम्पूर्णे विश्वे वर्धमानः अस्ति। सम्प्रति देशस्य ५४८ जनपदेभ्यः हस्ततन्तुहस्तशिल्पोत्पादाः प्रत्यक्षरूपेण १३२ देशेभ्यः निर्यात्यन्ते। अनेन ग्रामीणार्धनगरीयक्षेत्रेषु कार्यरताः शिल्पिनः प्रत्यक्षतया वैश्विकविपणिना सह सम्बद्धाः भवन्ति तथा तेभ्यः लाभः प्राप्यते।
मन्त्रिणा उक्तं यत् देशे सप्ताष्ट वा नूतनयुगस्य तन्तूनां उत्पादनस्य कार्यं शीघ्रमेव प्रारभ्यते, येन विदेशेषु अस्माकं निर्भरता समाप्तुं शक्यते। सः वंशतन्तु, अनानासतन्तु, कदलीतन्तु इत्यादीनां वैकल्पिकानाम् उद्योगानां सह स्वसहायतासमूहानां संयोजनाय बलं दत्तवान्।
मानवनिर्मितवस्त्रानुसन्धानसङ्घस्य (मन्त्र) निदेशकः डॉ. पङ्कजगान्धी उक्तवान् यत् प्राविधिकवस्त्राणां प्रयोगः अधुना केवलं पारम्परिकपरिधानपर्यन्तं सीमितः नास्ति, अपितु कृषिक्षेत्रे, स्वास्थ्यसेवाक्षेत्रे, रक्षाक्षेत्रे, वाहनक्षेत्रे, निर्माणक्षेत्रे, परिवहनक्षेत्रे तथा पर्यावरणसंरक्षणे इत्यादिषु महत्त्वपूर्णक्षेत्रेषु तीव्रगत्या वर्धमानः अस्ति। भारतं विश्वस्य प्रमुखेषु प्राविधिकवस्त्रविपणिषु अन्तर्भवति तथा अस्मिन् क्षेत्रे नवाचारस्य, अनुसन्धानस्य, स्वदेशीयोत्पादनस्य निर्यातविस्तारस्य च व्यापकाः सम्भावनाः सन्ति।
डॉ. गान्धिना प्राविधिकवस्त्रक्षेत्रे सूक्ष्मलघुमध्यमोद्योगानां सहभागितां वर्धयितुं उद्योगानां, शैक्षणिकसंस्थानां, अनुसन्धानसङ्गठनानां च मध्ये सहकारितां महत्त्वपूर्णां प्रतिपादितवान्। प्रस्तुतौ अत्याधुनिकप्रौद्योगिक्याः, नूतनानां उत्पादानां विकासस्य, आयातप्रतिस्थापनस्य तथा वैश्विकविपण्यां भारतीयउत्पादानां प्रतिस्पर्धात्मकतां वर्धयितुं सम्भावनानां विषये विशेषरूपेण प्रकाशः प्रदत्तः। तदतिरिक्तं सः उद्योगशैक्षणिकसहकारितायाः तथा सीओई टीआरए प्रारूपस्य माध्यमेन सूक्ष्मलघुमध्यमोद्योगेभ्यः प्राविधिकसहायता, परीक्षणसुविधा, उत्पादविकासः तथा व्यवसायीकरणस्य अवसराः प्रदातुं रूपरेखां प्रस्तुतवान्।
अस्मिन् अवसरे लघुउद्योगभारत्याः राष्ट्रियसङ्गठनमहामन्त्री प्रकाशचन्द्रः, राष्ट्रियसंयुक्तमहासचिवः नरेशपारीकः, सहसंयोजकः कपिलगुप्तः, सहसंयोजिका पल्लवीलढा, सम्पर्कप्रभारी सीमामिश्रा, मुक्तव्यापारसम्झौतेषु डॉ. विश्वजीतनागः, निर्यातसंवर्धनमिशनविषये विदेशव्यापारमहानिदेशालयस्य अधिकारिणी आशिमा, लघुउद्योगभारत्याः राष्ट्रियमहामन्त्री ओमप्रकाशगुप्तः, लघुउद्योगभारत्याः पूर्वराष्ट्रियाध्यक्षः मधुसूदनदादू, सूरतस्य एसजीसीसीआई इत्यस्य अध्यक्षः अशोकजीरावला, इचलकरञ्जीविधायकः राहुलप्रकाशअवाडे, राजस्थानप्रदूषणनियन्त्रणमण्डलस्य पूर्वमुख्यपर्यावरणाभियन्ता डॉ. विजयसिङ्घलः, स्प्रेइञ्जीनियरिङ्गडिवाइसेसलिमिटेड् इत्यस्य विवेकवर्मा, अग्रणीवस्त्रोद्योगपतिः रविपोदारः, अतुलमित्तलः इत्यादयः बहवः उद्यमिनः उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani