Enter your Email Address to subscribe to our newsletters



जातिभेदात् उपरि उत्थाय वयं सर्वे हिन्दवः एकाः स्मः : स्वामी चक्रपाणिः
हिन्दूस्वाभिमानसम्मेलने कालीप्रसादाय भारतरत्नसम्मानसहितम् अष्टादश प्रस्तावाः पारिताः
सामाजिकधार्मिककार्यकर्तारः सम्मानिताः
प्रयागराजः, ०२ अक्टोबरमासः (हि.स.)। जातिभेदात् उपरि उत्थाय वयं सर्वे हिन्दवः एकाः स्मः। सनातनसमाजस्य एकतयैव देशं सशक्तं कर्तुं शक्यते। उक्तं च शुक्रवासरे गान्धीजयन्त्याः शास्त्रीजयन्त्याश्च अवसरे के.पी. सामुदायिककेन्द्रे आयोजिते हिन्दूस्वाभिमानसम्मेलने श्रीपञ्चदशनामजूना-अखाडायाः जगद्गुरुणा अखिलभारतहिन्दूमहासभायाः राष्ट्रियाध्यक्षेण स्वामिना चक्रपाणिना महाराजेन।
सः अस्पृश्यतायाः उन्मूलनाय हिन्दूसमाजस्य सङ्गठनाय च आह्वानं कुर्वन् उक्तवान् यत् समाजे परस्परैकतां समरसतां च सुदृढीकर्तुं सर्वेषां दायित्वम् अस्ति।
गान्धीजयन्त्याः शास्त्रीजयन्त्याश्च अवसरे के.पी. सामुदायिककेन्द्रे हिन्दूस्वाभिमानसम्मेलनम् आयोजितम्। सम्मेलने मुन्शीकालीप्रसादस्य ‘कुलभास्कर’ इत्यस्य मरणोत्तरं भारतरत्नसम्मानप्रदानस्य, सनातनमण्डलस्य गठनस्य, गोहत्यायाः निषेधाय केन्द्रीयकानूनस्य, देवनिन्दानिषेधकानूनस्य च सहितं कुलम् अष्टादश प्रस्तावाः सर्वसम्मत्या पारिताः। आयोजकानाम् अनुसारं एते प्रस्तावाः ज्ञापनरूपेण प्रधानमन्त्रिणे प्रेषयिष्यन्ते।
स्वामी चक्रपाणिः उक्तवान् यत् श्रीरामजन्मभूमौ भव्यस्य मन्दिरस्य निर्माणं हिन्दूस्वाभिमानस्य महत्त्वपूर्णम् उदाहरणम् अस्ति।
सः सम्मेलने उपस्थितेभ्यः जनभ्यः अस्पृश्यतां दूरीकर्तुं हिन्दूसमाजं सङ्गठितं कर्तुं च सामूहिकं सङ्कल्पं कारितवान्। उपस्थितैः जनैः ‘ॐ’ इत्यस्य उच्चारणेन सङ्कल्पस्य समर्थनं कृतम्। सः उक्तवान् यत् एतादृशाः सम्मेलनाः अन्येषु स्थलेष्वपि आयोजयिष्यन्ते।
मुख्यातिथिः औद्योगिकविकासमन्त्री नन्दगोपालगुप्तः नन्दी सम्मेलने पारितानां सर्वेषां प्रस्तावानां समर्थनं कृतवान्। सः सनातनधर्मस्य सुदृढीकरणे समाजे च एकतायाः संरक्षणे बलं दत्तवान्।
सम्मेलने महापौरः गणेशकॆसरवानी, विधायकः हर्षवर्धनबाजपेयी, विधायकः दीपकपटेलः, कौशलेन्द्रनाथसिंहः, वरिष्ठाधिवक्ता टी.पी.सिंहः, डॉ. मुकेशश्रीवास्तवः, हृदयकुमारस्वप्निलः इत्यादयः जनाः उपस्थिताः आसन्।
कार्यक्रमस्य संयोजकेन कुमारनारायणेन अतिथीनां स्वागतं अभिनन्दनं च कृतम्। स्वामी चक्रपाणिना आयोजनस्य प्रशंसा कृता। मञ्चसञ्चालनं राजेशकॆसरवानी तथा नवीनसिन्हाभ्यां कृतम्।
मीडियाप्रभारी राजेशकॆसरवानिना उक्तं यत् सम्मेलने सामाजिकधार्मिकसंस्थाभ्यः सम्बद्धाः पदाधिकारिणः तथा सामाजिकक्षेत्रे उत्कृष्टसेवां कृतवन्तः जनाः स्मृतिचिह्नैः सम्मानिताः। तेषु अञ्जनीसक्सेना, शिवशङ्करसिंहः, सुशीलखरबन्दा, अनिमेषअग्रवालः, बच्चाभैया, प्रवीणश्रीवास्तवः, धुन्नूभैया, अजयअग्रहरिः, पवनगुप्तः इत्यादयः अनेके जनाः सम्मिलिताः आसन्। सम्मेलने बहुसङ्ख्यकाः जनाः उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani