Enter your Email Address to subscribe to our newsletters

फिरोजाबादम्, 02 अक्टूबरमासः (हि.स.)।
सेवासङ्कल्पाभियानस्य अन्तर्गतं शुक्रवासरे नगरे पालीवालसभागृहे विशेषकार्यक्रमस्य आयोजनं कृतम्। कार्यक्रमे पर्यटनमन्त्रिणा गुजरातस्य विकासात् आरभ्य उत्तरप्रदेशे सम्पन्नानां विकासकार्याणां तथा विकसितभारतस्य २०४७ तमवर्षपर्यन्तस्य सङ्कल्पस्य च विषये विस्तरेण प्रकाशः प्रदत्तः।
कार्यक्रमस्य शुभारम्भः उत्तरप्रदेशसर्वकारस्य पर्यटनसंस्कृतिमन्त्रिणा जयवीरसिंहेन मुख्यातिथिरूपेण उपस्थितेन कृतः। सः कार्यक्रमं सम्बोधयन् उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदिनः २००१ तमवर्षात् अद्यावधि २५ वर्षाणां राष्ट्रसेवायाः समाजसेवायाश्च यात्राम् आधृत्य प्रस्तुतानाम् अनकहीकथानां नाट्यरूपान्तरणं कार्यक्रमस्य प्रमुखम् आकर्षणम् अस्ति। तेन गुजरातस्य विकासात् आरभ्य उत्तरप्रदेशे सम्पन्नानां विकासकार्याणां तथा विकसितभारतस्य २०४७ तमवर्षपर्यन्तं सङ्कल्पस्य च विषये विस्तरेण प्रकाशः प्रदत्तः।
पर्यटनमन्त्री उक्तवान् यत् राष्ट्रस्य विकासाय सर्वैः ‘राष्ट्रं प्रथमम्’ इति भावनया स्वयोगदानं दातव्यम्। सः कार्यकर्तृभ्यः नागरिकेभ्यश्च आह्वानं कृतवान् यत् ते प्रधानमन्त्रिणः मोदिनः विकसितभारतस्य सङ्कल्पं पूरयितुं स्वां महत्त्वपूर्णां भूमिकां निर्वहन्तु।
कार्यक्रमस्य अवसरे अम्बर-वीथिनाट्यम्, लखनऊ तथा रङ्गलोककलाम्, आगरा इत्येताभ्यां संस्थाभ्यां सांस्कृतिककार्यक्रमाः प्रस्तुताः।
कार्यक्रमस्य अध्यक्षता महानगराध्यक्षेण सतीशदिवाकरेण कृता। अस्मिन् अवसरे भाजपाजिलाध्यक्षः उदयप्रतापसिंहः, पूर्वविधायकः ओमप्रकाशवर्मा, खण्डप्रमुखः लक्ष्मीनारायणयादवः, कन्हैयालालगुप्तः, भगवानदासशंखवारः, अमितगुप्तः, रामनरेशकटारः इत्यादयः वरिष्ठनेतारः, कार्यकर्तारः गणमान्यनागरिकाश्च उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani