Enter your Email Address to subscribe to our newsletters

ज्योतिर्मठम्, 2 अक्टूबरमासः (हि.स.)।
उत्तराखण्डे शीतकालीनक्रीडानां प्रोत्साहनाय शुक्रवासरे विंटरगेम्स एसोसिएशन ऑफ उत्तराखण्डस्य नूतनकार्यकारिण्याः गठनं कृतम्। निर्वाचनाधिकारिणः एस.एस.पाङ्गतेः पर्यवेक्षणे सम्पन्नायां निर्वाचनप्रक्रियायाम् अजयभट्टः एसोसिएशनस्य निर्विरोधाध्यक्षरूपेण निर्वाचितः। अभिमन्युपटवालः सचिवः, सुशीलपंवारः कोषाध्यक्षश्च निर्वाचितौ। एस.पी.एस.रावतः विजेन्द्रश्च उपाध्यक्षौ निर्वाचितौ।
नूतनकार्यकारिण्याः गठनानन्तरम् अध्यक्षः अजयभट्टः उक्तवान् यत् एषा दायित्वप्राप्तिः उत्तराखण्डे शीतकालीनक्रीडानां भविष्यं सुदृढं कर्तुं अवसरः अस्ति। सः उक्तवान् यत् एसोसिएशनद्वारा क्रीडकानां, प्रशिक्षकाणां, प्राविधिकाधिकारिणां च कृते उत्तमावसराः उपलब्धाः करिष्यन्ते तथा राज्ये शीतकालीनक्रीडानां विकासाय सामूहिकप्रयासाः क्रियन्ते।
सः उक्तवान् यत् उत्तराखण्डे प्राकृतिकरूपेण शीतकालीनक्रीडानां व्यापकाः सम्भावनाः सन्ति। एतासां सम्भावनानां राष्ट्रियस्तरात् अन्तरराष्ट्रियस्तरपर्यन्तं विस्ताराय एसोसिएशन स्पष्टदिशया कार्यं करिष्यति।
निर्वाचनप्रक्रियायां लक्ष्मणमेहता, जे.पी.जोशी, अरविन्दज्याला, सतीशबहुखण्डी इत्यादयः एसोसिएशनस्य वरिष्ठसदस्याः उपस्थिताः आसन्। सदस्यैः नूतनकार्यकारिण्यै शुभकामनाः प्रदत्ताः तथा शीतकालीनक्रीडानां विकासे सहयोगं निरन्तरं प्रदास्यन्ते इति उक्तम्।
अस्मिन् अवसरे टेन्जिङ्नोर्गे-राष्ट्रियसाहसिकक्रीडापुरस्कारेण सम्मानितस्य एस.पी.चमोलेः अभिनन्दनं कृतम्। एसोसिएशनद्वारा शीतकालीनक्रीडाक्षेत्रे साहसिकक्रीडाक्षेत्रे च तेन कृतस्य योगदानस्य कृते तस्मै शुभकामनाः प्रदत्ताः।
अध्यक्षः अजयभट्टः निर्वाचनप्रक्रियायाः सफलसम्पादनाय निर्वाचनाधिकारिणः एस.एस.पाङ्गतेः तथा एसोसिएशनस्य सर्वेषां सदस्याणां प्रति कृतज्ञतां प्रकटितवान्।
Hindusthan Samachar / Dheeraj Maithani