बोस्टन-मैराथने धाविष्यति ऊनायाः डीएफओ विकल्पयादवः, हिमाचलप्रदेशस्य प्रथमः धावकः भविष्यति
ऊनानगरम्, १ अक्टोबरमासः (हि.स.)। जनपद-मण्डलीयवनाधिकारी विकल्प-यादवः २०२७ तमे वर्षे एप्रिलमासे अमेरिकादेशस्य बोस्टननगरे आयोज्य-मानायां १३१ तम्यां बोस्टन-मैराथन-प्रतियोगितायां भागं ग्रहीष्यति। अनेन सः अस्यां प्रतिष्ठितायां मैराथन-प्रति-योगितायां भागं
DFO una


ऊनानगरम्, १ अक्टोबरमासः (हि.स.)। जनपद-मण्डलीयवनाधिकारी विकल्प-यादवः २०२७ तमे वर्षे एप्रिलमासे अमेरिकादेशस्य बोस्टननगरे आयोज्य-मानायां १३१ तम्यां बोस्टन-मैराथन-प्रतियोगितायां भागं ग्रहीष्यति। अनेन सः अस्यां प्रतिष्ठितायां मैराथन-प्रति-योगितायां भागं गृह्णन् हिमाचल-प्रदेशस्य प्रथमः धावकः भविष्यति।

विकल्पयादवः अधुना पर्यन्तं देशे आयोजितासु विभिन्नासु प्रतिष्ठितासु मैराथन-प्रतियोगितासु प्रायः १२ वारं भागं गृहीतवान् अस्ति। सः दीर्घदूरधावने प्रायः ३०,००० किलोमीटर्-दूरं धावितवान् अस्ति। मैराथन-प्रतियोगितायां तस्य अद्यावधि सर्वोत्तमं प्रदर्शनं ४२.२ किलोमीटर-दूरीं २ होरा ५२ कला ३० पला-समये पूर्णां कर्तुम् अस्ति। एषा उपलब्धिः तेन २०२६ तमे वर्षे फेब्रुवरी-मासे दिल्लीनगरे आयोजितायां मैराथन-प्रतियोगितायां प्राप्ता आसीत्।

बोस्टन-मैराथन विश्वस्य प्रतिष्ठितासु मैराथन-धावनप्रतियोगितासु अन्यतमा अस्ति। अस्यां भागं ग्रहीतुं धावकैः निर्धारितं पात्रतासमयं पात्रतामानकानि च पूर्णानि कर्तव्यानि भवन्ति। सम्पूर्णविश्वस्य धावकाः अस्यां प्रतिष्ठितायां धावनप्रतियोगितायां स्थानं प्राप्तुं कठोरं परिश्रमं कुर्वन्ति।

विकल्पयादवेन अपि स्वस्य उत्कृष्ट-प्रदर्शनस्य आधारेण बोस्टन-मैराथन-प्रतियोगितायै पात्रता प्राप्ता अस्ति। तस्य एषा उपलब्धिः हिमाचलप्रदेशस्य कृते अपि गौरवस्य विषयः मन्यते।

१८९७ तमे वर्षे अभवत् प्रारम्भः

बोस्टन-मैराथन-प्रतियोगितायाः आयोजनम् अमेरिकादेशस्य मैसाचुसेट्स-राज्ये भवति। अस्याः प्रारम्भः १८९७ तमे वर्षे अभवत् तथा एषा विश्वस्य प्राचीनतमासु वार्षिक-मैराथन-प्रतियोगितासु परिगण्यते। प्रत्येकं वर्षे एप्रिलमासस्य तृतीये सोमवासरे पैट्रियट्स-दिवसस्य अवसरे अस्याः आयोजनं भवति। धावनप्रतियोगिता हॉप्किन्टनतः प्रारभ्य बोस्टननगरस्य कोप्ली-स्क्वायर-पर्यन्तं भवति।

Hindusthan Samachar / Divya Ranjan