Enter your Email Address to subscribe to our newsletters



- गृहमन्त्रिणा झोटा, गुलजारः, विक्रमजीतसिंहः इत्येतेषां परिजनैः सह कृतः साक्षात्कारः
चण्डीगढम्, २० अक्टोबरमासः (हि.स.)। गृहमन्त्री अमितशाहः पञ्जाबवासिनः नशाव्यसनस्य विरुद्धम् एकतां कर्तुम् आहूतवान्। सः अवदत् यत् अस्मिन् सङ्घर्षे केन्द्रसर्वकारः पञ्जाबवासिभिः सह अस्ति। २०२९ तमवर्षस्य डिसेम्बरमासस्य ३१ दिनाङ्कपर्यन्तं पञ्जाबराज्यात् मादकद्रव्यतस्कराणां समूलोच्छेदनमेव मोदीसर्वकारस्य लक्ष्यम् अस्ति। अद्य पञ्जाबस्य ग्रामे ग्रामे मादकद्रव्याणि प्राप्यन्ते, किन्तु एतस्य नियन्त्रणविषये सर्वकारः पूर्णतया विफलः सिद्धः अभवत्।
गृहमन्त्री मङ्गलवासरे पञ्जाबस्य गुरदासपुरे विक्रमजीतसिंहस्य, सङ्गरूरे गुलजारसिंहस्य, मानसानगरे च परविन्दरसिंहझोटा इत्यस्य परिजनैः सह अमिलत्। एते त्रयः मादकद्रव्यव्यसनस्य विरुद्धं सङ्घर्षं कुर्वन्तः स्वप्राणान् अत्यजन्। देहलीं प्रति प्रत्यागमनात् पूर्वम् अमितशाहः लुधियानानगरे पत्रकारैः सह सम्भाषणं कुर्वन् अवदत् यत् मादकद्रव्यतस्कराणां विरुद्धं सङ्घर्षं कुर्वन्तः मृतानां जनानां परिजनैः मिलित्वा सः अत्यन्तं दुःखितः अभवत्। २०२२ तमे वर्षे त्रिषु मासेषु मादकद्रव्याणि समापयितुं प्रतिज्ञां कृत्वा सत्तां प्राप्तवत्याः आम आदमी पार्टी इति दलस्य सर्वकारस्य समीपे अस्य विषयस्य किमपि उत्तरं नास्ति। पञ्जाबसर्वकारः केवलं मिथ्याव्याजानि प्रस्तौति।
सः अवदत् यत् मङ्गलवासरे पञ्जाबम् आगमनस्य पृष्ठे किमपि राजनैतिकं प्रयोजनं नासीत्। तथापि मुख्यमन्त्रिणा तस्य नाम गृहीत्वा अपशब्दाः उक्ताः। अमितशाहः अवदत् यत् पञ्जाबसर्वकारः तं यथेच्छं निन्दतु, किन्तु पञ्जाबात् मादकद्रव्याणि तु समापयतु। अद्य पञ्जाबे मादकद्रव्यतस्कराणां विरुद्धं स्वरम् उत्थापयन्तः जनाः हन्यन्ते। तस्कराणां विरुद्धं कार्यवाहीं कुर्वन्तः आरक्षक-कर्मचारिणः अधिकारिणश्च स्वयमेव मादकद्रव्यतस्कर्यां संलग्नाः दृश्यन्ते। पञ्जाबसर्वकारः मादकद्रव्य-तस्करेभ्यः संरक्षणं प्रददाति।
अमितशाहः अवदत् यत् भाजपादलेन गुजरातस्य बन्दरगाहात् विंशतिसहस्र-कोटिरूप्यकमूल्यानि मादकद्रव्याणि गृहीतानि। एतानि मादकद्रव्याणि पञ्जाबस्य गृहाणि कथं प्राप्नुवन्ति? अस्य उत्तरं पञ्जाबसर्वकारेण दातव्यम्। पञ्जाबसर्वकारस्य आरक्षक-कर्मचारिणां गृहेभ्यः मादकद्रव्याणि कथं प्राप्यन्ते, इत्यस्मिन् विषये अपि मुख्यमन्त्रिणा स्थितिः स्पष्टतया वक्तव्या।
अमितशाहः अवदत् यत् झोटा-प्रकरणं केन्द्रीयान्वेषणविभागाय समर्पितम् अस्ति। अस्य अन्वेषणं बुधवासरात् आरप्स्यते। सः पञ्जाबसर्वकारम् आहूतवान् यत् विक्रमजीतसिंहस्य गुलजारसिंहस्य च प्रकरणे अपि सीबीआईद्वारा अन्वेषणं कारयेत्। केन्द्रीयान्वेषणसंस्था अन्वेषणं कृत्वा दोषिणः कारागारे स्थापयिष्यति।
पञ्जाबसर्वकारस्य आलोचनां कुर्वन् अमितशाहः अवदत् यत् गतवर्षे देशे सर्वत्र पीआईटी-एनडीपीएस-अधिनियमान्तर्गतं ९२९ प्रकरणानि पञ्जीकृतानि, आरोपिणश्च गृहीताः; किन्तु चतुर्षु वर्षेषु पञ्जाबे एकमपि प्रकरणं न पञ्जीकृतम्। गृहमन्त्री अवदत् यत् देशे मादकद्रव्याणां विरुद्धं अष्टचत्वारिंशत् उपवेशनानि अभवन्। गतवर्षे गृहमन्त्रालयस्तरे त्रयः उपवेशनानि अभवन्, किन्तु पञ्जाबसर्वकारेण एकमपि उपवेशनं न कृतम्।
पञ्जाबसर्वकारस्य दोषपूर्णव्यवस्थायाः कारणेन वर्षाणि यावत् न्यायवैज्ञानिक-विज्ञानप्रयोगशालायां चिट्टा-नामकस्य मादकद्रव्यस्य परीक्षणं न भवति। अस्य लाभं गृहीत्वा तस्कराः जमानतं प्राप्नुवन्ति। पञ्जाबस्य मुख्यमन्त्री एतेषां प्रश्नानाम् उत्तराणि राज्यस्य जनतायै दद्यात्।
Hindusthan Samachar / Divya Ranjan