श्रीराममन्दिरस्य यज्ञशालायां १८ कन्यानां पूजनं कृत्वा चुनरीवस्त्रं प्रदाय सम्मानिताः
अयोध्या, २० अक्टोबरमासः (हि.स.)। श्रीरामजन्मभूमितीर्थक्षेत्रन्यासेन शारदीय-नवरात्रेः समापनावसरे मङ्गलवासरे श्रीराममन्दिरस्य यज्ञ-शालायां कन्या-पूजनस्य भोजनस्य च आयोजनं कृतम्। अस्मिन् समारोहे १८ कन्यानां पूजनं कृत्वा ताभ्यः चुनरीवस्त्राणि आच्छाद्य द
18 कन्याओं का पूजन राम मंदिर


18 कन्याओं का पूजन राम मंदिर


अयोध्या, २० अक्टोबरमासः (हि.स.)। श्रीरामजन्मभूमितीर्थक्षेत्रन्यासेन शारदीय-नवरात्रेः समापनावसरे मङ्गलवासरे श्रीराममन्दिरस्य यज्ञ-शालायां कन्या-पूजनस्य भोजनस्य च आयोजनं कृतम्। अस्मिन् समारोहे १८ कन्यानां पूजनं कृत्वा ताभ्यः चुनरीवस्त्राणि आच्छाद्य दक्षिणा च प्रदत्ता।

अस्मिन् अवसरे न्यासस्य सदस्यः कृष्णमोहनः, न्यासस्य सदस्यः महन्तः दिनेंद्रदासः, धार्मिकसमितेः आचार्यः इन्द्रदेवः, जगदीशशङ्करः आफले इत्यादयः अनेकजनाः उपस्थिताः आसन्। सर्वैः कन्यानां पादप्रक्षालनं कृत्वा पूजनं विहितम्। ततः ताभ्यः चुनरीवस्त्राणि आच्छाद्य सम्मानं प्रदत्तम्। अनन्तरं कन्याभ्यः नैवेद्यं समर्पितम्। भवानी-सिंहराठौरः सर्वाभ्यः कन्याभ्यः दक्षिणां प्रदाय ताः ससम्मानं विदायम् अकरोत्।

धार्मिकमान्यतानुसारं नवरात्रौ कन्या-पूजनं देवीस्वरूपाणां कन्यानां सम्मानस्य शक्त्याः आराधनायाश्च प्रतीकम् इति मन्यते। मन्दिरपरिसरस्य यज्ञशालायाम् आयोजिते अस्मिन् कार्यक्रमे पारम्परिकविधिविधानैः सह कन्यापूजनं सम्पन्नम्।

Hindusthan Samachar / Divya Ranjan