स्वकीयेन उड्डयन-प्रशिक्षकेन सह ‘किरण’ प्रशिक्षक-विमाने वायुसेनाध्यक्षेण पञ्चपञ्चाशन्निमेषं यावत् उड्डयनं कृतम्
पक्ष-सेनानी (विंग कमाण्डर्) वी.एस. कोचर (निवृत्तः) वायुसेनाध्यक्षस्य उड्डयन-यात्राम् अपूरयत् नवदेहली, २० अक्टूबरमासः (हि.स.)। वायुसेनाध्यक्षः ‘एयर चीफ मार्शल’ ए.पी. सिंहः तेलङ्गाणाराज्यस्य डुण्डिगल्-स्थाने स्वस्य तेन पुरातनेन प्रशिक्षकेन निवृत्त
अपने फ्लाइंग इंस्ट्रक्टर के साथ वायु सेना प्रमुख


- पक्ष-सेनानी (विंग कमाण्डर्) वी.एस. कोचर (निवृत्तः) वायुसेनाध्यक्षस्य उड्डयन-यात्राम् अपूरयत्

नवदेहली, २० अक्टूबरमासः (हि.स.)। वायुसेनाध्यक्षः ‘एयर चीफ मार्शल’ ए.पी. सिंहः तेलङ्गाणाराज्यस्य डुण्डिगल्-स्थाने स्वस्य तेन पुरातनेन प्रशिक्षकेन निवृत्त-पक्ष-सेनानिना (रिटायर्ड विंग कमाण्डर्) वी.एस. कोचरेण सह उड्डयनम् अकरोत्, येन तस्मै द्विचत्वारिंशत् (४२) वर्षेभ्यः पूर्वम् आकाशे उड्डयनं पाठितम् आसीत्। वायुसेना-प्रशिक्षणागारे (एयर फोर्स एकेडमी) ‘एचजेटी-१६ किरण’ प्रशिक्षक-विमाने एतत् उड्डयनं कृतम्, यत् वायुसेनाध्यक्षस्य सेवाकाले अन्तिमा उड्डयन-यात्रा (सॉर्टी) भविष्यति। ‘एयर मार्शल’ आशुतोष दीक्षितः ३१ अक्टोबर्-दिनाङ्के वायुसेनाध्यक्षरूपेण (चीफ ऑफ एयर स्टाफ) तस्य स्थानं ग्रहीष्यति।

निवृत्त-पक्ष-सेनानिना वी.एस. कोचरेण सह चालक-प्रकोष्ठे (कॉकपिट) उपविश्य वायुसेनाध्यक्षः ‘एयर चीफ मार्शल’ ए.पी. सिंहः मङ्गलवासरे भारतीय-वायुसेनायाः ‘किरण मार्क-१’ प्रशिक्षक-विमानम् उड्डायितवान्। प्रायः पञ्चपञ्चाशन्निमेषाणां (५५ निमेषाणाम्) अस्योड्डयनस्य अत एव विशिष्टं महत्त्वम् आसीत्, यतोहि सः स्वस्य प्रथमेन उड्डयन-प्रशिक्षकेन निवृत्त-पक्ष-सेनानिना वी.एस. कोचरेण सह उड्डयनम् अकरोत्। अस्मिन् क्षणे वायुसेनाध्यक्षस्य उड्डयन-यात्रा सम्पूर्णा जाता। एषः अवसरः उड्डयन-प्रशिक्षकस्य तस्य छात्रस्य च मध्ये विद्यमानं दृढसम्बन्धम्, सहैव वायुयोद्धृणां बह्वीनां पीढीनां निर्माणे प्रशिक्षणस्य, मार्गदर्शनस्य (मेण्टरशिप), अनुशासनस्य च महतीं भूमिकां प्रादर्शयत्। तस्य प्रथमोड्डयनात् आरभ्य तस्यान्तिम-उड्डयनं यावत् वायुसेनायै सेवायाः, कौशलस्य, समर्पणस्य च एका दीप्ता यात्रा आसीत्।

एनम् अवसरं संस्मृत्य वायुसेनाध्यक्षः अवदत् यत् एतत् वस्तुतः स्वप्नस्य साक्षात्करणमिव आसीत्, यतोहि मया स्वकीय-यात्रा अनेनैव विमानेन आरब्धा आसीत्। सः अकथयत् यत् मह्यं प्रतीयते यत् अहम् एकः एव अध्यक्षः अस्मि यः निवृत्तो भवति, यदा तु येन प्राथमिक-विमानेन सः उड्डयनम् अकरोत्, तत् अद्यापि कार्यरतमस्ति। अतः अहम् आत्मानम् अतीव कृतज्ञं मन्ये। अहम् अस्मिन्नेव स्थाने प्रारम्भे मह्यम् उड्डयनं पाठितवतः स्वप्रशिक्षकस्य वी.एस. कोचर-महोदयस्य प्रति अतीव कृतज्ञः अस्मि। अतः अहम् इच्छामि स्म यत् एतत् चक्रं सम्पूर्णं भवेत्। मया स्वकीया प्रथमा ‘सॉर्टी’ २८ जनवरी १९८४ तमे वर्षे अस्मिन्नेव स्थाने तेनैव सह कृता आसीत्, अद्य च मया सैनिक-वेषे (यूनिफॉर्म) स्वकीया अन्तिमा ‘सॉर्टी’ तेनैव सह तस्मिन्नेव विमाने सम्पूर्णा कृता।

‘एयर चीफ मार्शल’ ए.पी. सिंहः ३१ अक्टोबर्-दिनाङ्के निवृत्तो भवति, तदनन्तरं च वर्तमानः उपप्रमुखः ‘एयर मार्शल’ आशुतोष दीक्षितः वायुसेनाध्यक्षस्य पदभारं सम्भालेष्यति। सः १३ अक्टोबर्-दिनाङ्के जोधपुर-वायुसेना-केन्द्रे ‘तरङ्गशक्तिः’ इति युद्धाभ्यासस्य समये स्वदेशीये ‘तेजस्’ विमाने स्वकार्यकालस्य अन्तिमं युद्धविमान-उड्डयनम् अकरोत्। तस्मै स्थिर-पक्ष-युक्त (फिक्स्ड विंग) तथा घूर्णि-पक्ष-युक्त (रोटरी विंग) विमानेषु पञ्चसहस्राधिक-होराणाम् (५,०००+ घण्टानाम्) उड्डयनस्य अनुभवः वर्तते।

–––––––––––––––––––––––––––––––––––

Hindusthan Samachar / Divya Ranjan