Enter your Email Address to subscribe to our newsletters

मुंबई, 20 अक्टूबरमासः (हि.स.)।
बॉलीवुडजगति प्रसिद्धौ नक्षत्रौ दीपिका पादुकोण तथा रणवीर सिंहौ विजयादशम्याः अवसरे स्वद्वितीयायाः पुत्र्याः नाम सार्वजनिकं कृतवन्तौ। दम्पती सामाजिकमाध्यमे पारिवारिकं चित्रं प्रकाश्य अवदताम् यत् तयोः नवजातायाः पुत्र्याः नाम ‘देवी पादुकोण सिंह’ इति स्थापितम् अस्ति। चित्रे रणवीरः दीपिका च स्वयोः उभाभ्यां पुत्रीभ्यां दुआ तथा देवी इत्येताभ्यां सह दृश्येते। अस्य चित्रस्य सह तौ लिखितवन्तौ, “प्रेम्णा आनन्देन च परिपूर्णा... देवी पादुकोण सिंह।”
दीपिका रणवीरयोः अस्याः सामाजिकमाध्यमे प्रकाशितायाः सूचनायाः प्रशंसकैः अत्यधिकं प्रेम प्रदीयते। चित्रे परिवारस्य अस्य विशेषक्षणस्य झलक् दृश्यते। विजयादशमीसदृशे शुभावसरे पुत्र्याः नामघोषणया एषः आनन्दः अधिकं विशेषः जातः। भारतीयसंस्कृतौ ‘देवी’ इति शब्दः शक्तेः, गरिम्णः दिव्यत्वस्य च प्रतीकः मन्यते। अतः अस्मिन् दिने नामस्य उद्घाटनं प्रशंसकाः अपि विशेषदृष्ट्या पश्यन्ति।
दीपिका रणवीरौ च नवम्बरमासे २०१८ तमे वर्षे विवाहं कृतवन्तौ। सितम्बरमासे २०२४ तमे वर्षे तयोः गृहे प्रथमा पुत्री दुआ अजायत। इदानीं द्वितीयायाः पुत्र्याः आगमनेन तयोः परिवारः अधिकं विस्तृतः जातः। उभौ कलाकारौ प्रायः स्वजीवनस्य निजीक्षणान् प्रशंसकैः सह साझा कुरुतः। द्वितीयायाः पुत्र्याः नामघोषणानन्तरं सामाजिकमाध्यमेषु ताभ्यां शुभकामनाः प्राप्यन्ते।
---------------
Hindusthan Samachar / Dheeraj Maithani