लुधियानानगरे गृहमन्त्रिणा अमितशाहेन नशारूपिरावणस्य पुत्तलिका दग्धा
चण्डीगढम्, २० अक्टोबरमासः (हि.स.)। केन्द्रीयगृहमन्त्री अमितशाहः मङ्गलवासरे विजयादशम्याः अवसरे पञ्जाबस्य औद्योगिकराजधान्यां लुधियानानगरे १२१ पादमितां नशारूपिरावणस्य पुत्तलिकां दग्धवान्। अनेन सह अमितशाहः पञ्जाबवासिनां समक्षं नशामुक्तपञ्जाबस्य निर्माण
गृहमंत्री अमित शाह पंजाब के लुधियाना में नशा रूपी रावण के पुतले का दहन करते हुए


चण्डीगढम्, २० अक्टोबरमासः (हि.स.)। केन्द्रीयगृहमन्त्री अमितशाहः मङ्गलवासरे विजयादशम्याः अवसरे पञ्जाबस्य औद्योगिकराजधान्यां लुधियानानगरे १२१ पादमितां नशारूपिरावणस्य पुत्तलिकां दग्धवान्। अनेन सह अमितशाहः पञ्जाबवासिनां समक्षं नशामुक्तपञ्जाबस्य निर्माणस्य सङ्कल्पमपि अकरोत्।

लुधियानानगरस्य दरेसीक्रीडाङ्गणे आयोजिते कार्यक्रमे सम्बोधयन् अमितशाहः अवदत् यत् अत्र विगतेभ्यः २०० वर्षेभ्यः पुत्तलिकादहनं क्रियते। प्रतिवर्षम् अत्र दुष्टतायाः प्रतीकाणि पुत्तलिकानि तत्कालीनज्वलन्तसमस्याभ्यः समर्प्यन्ते। अस्मिन् वर्षे रावणस्य पुत्तलिकया सह नशाव्यसनस्य उन्मूलनस्य सङ्कल्पः कृतः अस्ति। नशारूपिरावणस्य पुत्तलिकां दहन् अमितशाहः अवदत् यत् एतत् दहनं नशारूपदुष्टतायाः उन्मूलनस्य प्रतीकम् अस्ति।

कार्यक्रमे उपस्थितान् सहस्रशः जनान् नशामुक्तपञ्जाबस्य निर्माणे स्वकीयां भूमिकां निर्वोढुं सङ्कल्पं कारयन् अमितशाहः अवदत् यत् पञ्जाबवासिभिः नशाव्यसनस्य विरुद्धं जनान्दोलनम् आरब्धव्यम्। अस्मिन् कार्ये केन्द्रसर्वकारः सर्वसम्भवां सहायतां करिष्यति। सः अवदत् यत् यत्र कुत्रापि नशाद्रव्याणां व्यापारस्य सूचना प्राप्यते, तत्र तस्य विषये स्वापकनियन्त्रणब्यूरो (नारकोटिक्स कन्ट्रोल ब्यूरो) इत्यस्य साहाय्यदूर-भाषासङ्ख्यायां सूचनां पञ्जीकुर्वन्तु। यदि पञ्जाबसर्वकारः कार्यवाहीं न करिष्यति, तर्हि केन्द्रसर्वकारः अस्मिन् विषये साक्षात् कार्यवाहीं करिष्यति। अस्मिन् विषये पञ्जाबवासिभिः भीताः भवितुं न प्रयोजनम्। २०२९ तमे वर्षे विजयादशम्याः अवसरे प्रत्येकस्मिन् जनपदे नशा-रूपिरावणस्य पुत्तलिका दहिष्यते।

Hindusthan Samachar / Divya Ranjan