मध्यप्रदेशस्य उज्जयिन्यां विजयदशम्यां निर्गता बाबा-महाकालस्य शोभायात्रा, द्रोण-यन्त्रैः वर्षितानि पुष्पाणि, आरक्षक-दलेन दत्ता सलामी
उज्जयिनी, २० अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिन्यां विजयादशम्याः अवसरे विश्वप्रसिद्ध-ज्योतिर्लिङ्गस्य भगवतः महाकालस्य शोभायात्रा सोल्लासं नगरभ्रमणार्थं निर्गता। शोभायात्रा-काले स्थाने स्थाने बाबा-महाकालस्य भव्यं स्वागतं कृतम्। अस्मिन् समये
विजयदशमी पर निकली सवारी के दौरान बाबा महाकाल की आरती उतारते हुए पुजारी


उज्जयिनी, २० अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिन्यां विजयादशम्याः अवसरे विश्वप्रसिद्ध-ज्योतिर्लिङ्गस्य भगवतः महाकालस्य शोभायात्रा सोल्लासं नगरभ्रमणार्थं निर्गता। शोभायात्रा-काले स्थाने स्थाने बाबा-महाकालस्य भव्यं स्वागतं कृतम्। अस्मिन् समये द्रोण-यन्त्रैः (ड्रोन) पुष्पाणां वृष्टिः कृता।

वस्तुतः, विजयादशम्यां बाबा-महाकालः वर्षे सकृदेव (एकवारमेव) नगरभ्रमणार्थं निर्गच्छति। अस्मिन् वारे अपि परम्परानुसारं मङ्गलवासरे सायं चतुर्वादने (४:०० वादने) श्रीमद्-महाकालेश्वर-मन्दिरे पूजनानन्तरं शोभायात्रा पारम्परिक-मार्गेण प्रस्थिता। शोभायात्रायाः मन्दिरात् बहिरागमनानन्तरमेव सशस्त्र-आरक्षक-बलस्य सैनिकैः राजाधिराजाय सलामी (सैनिकाभिवादनं) दत्ता। तदनन्तरम् आरक्षक-वादकदलं, हयरोहि-दलं (अश्वारोहि-दलम्), मन्दिरस्य पुरोहिताः अर्चकाश्च, अधिकारिणः कर्मचारिणः भक्ताश्च शोभायात्रया सह अगच्छन्।

शोभायात्रायां भजनमण्डलीभिः, वैदिकबटुकैः, भारत-स्काउट्-गाइड्-दलैः, काङ्ग्रेस-सेवादलेन अन्यैश्च दलैः भागः गृहीतः। वैदिकबटुकाः मन्त्रोच्चारणम् अकुर्वन्, यदा तु आरक्षक-तथा-महाकालेश्वरमन्दिरस्य वादकदलाभ्यां प्रस्तुतिः दत्ता। शोभायात्रायां दृश्यफलकैः (झाङ्कीभिः) सह जनजातीय-कलाकाराणां लोकनृत्यानि अपि आकर्षणस्य केन्द्रम् आसन्। पृथक्-पृथक् जनजातीय-दलानां कलाकारैः पारम्परिक-नृत्यानां प्रस्तुतिं दत्त्वा शोभायात्रायाः अग्रेसरत्वेन स्वागतं कृतम्।

बाबा-महाकालस्य शोभायात्रायाः स्वागताय नगरस्य विविधानि मार्गेषु स्वागत-मञ्चाः निर्मिताः। वणिग्भिः निवासिभिश्च अतीवोत्साहेन शिविकायाः (पालकी-इत्यस्याः) स्वागतं कृतम्। यात्रा-मार्गे रङ्गावली (रङ्गोली) अपि रचिता। आयोजने द्रोण-यन्त्रैः भगवतः शिविकायाम् उपरि ५०० किलोग्राम-परिमित-पुष्पाणां वर्षाकरणस्य व्यवस्था कृता। पञ्चभिः एलईडी-रथैः शोभायात्रायाः साक्षात्-प्रसारणम् अपि कृतम्।

दशहरा-मैदाने शमीवृक्षस्य पूजनम्

शोभायात्रा गुदरी-चतुष्पथात्, पटनी-विपणि-मार्गात्, गोपालमन्दिरात्, सराफा-विपण्याः, सती-द्वारात्, नूतनमार्गात्, दौलतगञ्जात्, मालीपुरात्, देवास-द्वारात्, चामुण्डा-चतुष्पथात्, स्तम्भ-मार्गात् (टावर-मार्गात्), शहीद-उद्यानात् माधवनगर-क्षेत्रात् च गत्वा दशहरा-मैदानं सम्प्राप्ता। अत्र बाबा-महाकालस्य शिविकायाः स्वागतं कृत्वा विधिविधानेन पूजनं कृतम्। तदनन्तरं भगवतः मनमहेशस्य शमीवृक्षस्य च पूजनम् अभवत्। दशहरा-मैदाने पूजनपरम्परायाः सम्पूर्णायां सत्यां शोभायात्रा प्रत्यागमनाय प्रस्थिता।

प्रत्यागमने शोभायात्रा दशहरा-मैदानात् गङ्गा-होटल्-मार्गेण, देवास-मार्गेण, त्रि-दीप-चतुष्पथात् (तीन बत्ती चौराहा), माधव-क्लब्-मार्गेण, धन्नालालस्य आवास-क्षेत्रात्, लोकनिर्माण-विभाग-कार्यालयात् ‘फ्रीगञ्ज’-उपरि-सेतुतः (ओवरब्रिज-तः) च प्रासरत्। ततः परं संख्याराजे-धर्मशालाम्, देवास-द्वारं, मालीपुरं, दौलतगञ्जम्, इन्दौर-द्वारं, गदापुलियां, हरिफाटक-सेतुम्, बेगमबाग्-क्षेत्रं कोट-मोहल्ला-चतुष्पथं च उल्लङ्घ्य सा पुनः श्रीमद्-महाकालेश्वर-मन्दिरं प्राप्तवती।

उल्लेखनीयम् अस्ति यत् बाबा-महाकालस्य इयं शोभायात्रा वर्षे सकृत् विजयादशम्यां नूतननगरस्य भ्रमणाय निर्गच्छति। अस्मिन् समये फ्रीगञ्ज-मालीपुर-दशहरामैदानादीनां विविधानां क्षेत्राणां वणिजः निवासिनश्च स्वागतं कुर्वन्ति। महत्यां सङ्ख्यायां भक्ताः स्वागतमञ्चान् निर्माय राजाधिराजस्य अभिनन्दनम् अकुर्वन्।

––––––––––––––––––––––––––––––

Hindusthan Samachar / Divya Ranjan