Enter your Email Address to subscribe to our newsletters




- पत्न्या अमृताराय-महोदयया सह कृतं शिवलिङ्ग-पूजनम्
उज्जयिनी, २० अक्टोबर् (हि.स.)। काङ्ग्रेसपक्षस्य वरिष्ठनेतुः मध्यप्रदेशस्य भूतपूर्व-मुख्यमन्त्रिणः च दिग्विजयसिंहस्य ‘सत्य-सनातन-स्वाभिमान-यात्रा’ मङ्गलवासरे बाबा-महाकालस्य नगर्याः उज्जयिन्याः प्रारब्धा वर्तते। प्रायः ९५० कि.मी. परिमिता इयं यात्रा प्रायशः सप्ततिषु (७०) दिनेषु अयोध्यायाः श्रीराममन्दिरं प्राप्स्यति।
विजयादशम्याः अवसरे यात्रायाः प्रारम्भात् पूर्वं दिग्विजयसिंहः स्वपत्न्या अमृताराय-महोदयया सह चिन्तामण-गणेशस्य दर्शनम् अकरोत्। तदनन्तरं तौ बालाजी-उद्याने (बालाजी गार्डन्) पार्थिव-शिवलिङ्ग-निर्माणार्थं प्राप्तवन्तौ, अत्र च शिवलिङ्गस्य पूजनम् अकुरुताम्। अत्र महत्यां सङ्ख्यायां सन्तसमाजः एकत्रितः आसीत्। बालाजी-उद्याने उपस्थितेन जनसमूहेन शिवलिङ्गानां निर्माणं कृतम्, अस्मिन् समये राम-शिव-सङ्कीर्तनैः सह जनैः विधिवत् पूजार्चनं कृतम्।
बालाजी-उद्याने दिग्विजयसिंहस्य पुत्रः जयवर्धनसिंहोऽपि आयोजनस्य पर्यवेक्षणे संलग्नः आसीत्। कन्यापूजनं महाप्रसाद-भोजनं च विहाय अन्येषु धार्मिकानुष्ठानेषु भागग्रहणात् परं दिग्विजयसिंहः सपाद-एकवादने (१:१५ वादने) यात्रायाः प्रारम्भम् अकरोत्। यात्रायाः अग्रे शिव-पार्वत्योः झाङ्की (दृश्यफलकम्), एलईडी-यानम्, ध्वनि-विस्तारक-यन्त्रं (डीजे), भजनमण्डली, वादकदलम्, राष्ट्रियध्वजः, धर्मध्वजः, ढक्कानिनादः, साधु-सन्तानां च वृन्दं सम्मिलितम् अस्ति। यात्रा नगरस्य विविधमार्गेभ्यः प्रचलन्ती अग्रे सरति।
दिग्विजयसिंहस्य इयं यात्रा उज्जयिनीतः प्रारभ्य ओरछास्थं रामराजा-सर्वकार-मन्दिरं गत्वा अयोध्यायाः श्रीराममन्दिरं यावत् प्राप्स्यति। यात्रायाः मार्गः मध्यप्रदेशस्य उत्तरप्रदेशस्य च विविधेभ्यः नगरेभ्यः ग्राम्यक्षेत्रेभ्यश्च निर्णीतः अस्ति। यात्रायाः समग्रं दूरं प्रायः ९३० किलोमीटर्-परिमितं कथितम्।यात्रायाः माध्यमेन दिग्विजयसिंहः विविधक्षेत्रेषु जनैः सह संवादं विधास्यति।
सत्ये, न्याये, पारदर्शकतायां च बलोपस्थापनम्
दिग्विजयसिंहः यात्रायाः उद्देश्ये सनातनधर्मस्य मूलादर्शान् सत्यं, न्यायम्, आचारं, स्वाभिमानं चाधिकृत्य जनजागरणे प्राधान्यं दत्तवान्। एतेन सहैव धार्मिकस्थलेभ्यः प्राप्यमाणस्य दानस्य (चन्दे), उपहारस्य (चढ़ावे), मन्दिराणां सम्पत्तीनां च सम्बद्धेषु प्रकरणेषु पारदर्शकता तथा च कथितानाम् अनियमानां निष्पक्षपरीक्षणस्य याचना अपि यात्रायाः प्रमुखेषु विषयेषु अन्तर्भवति।
काङ्ग्रेस-विधायकः महेश परमारः न्यवेदयत् यत् यात्रायाः प्रारम्भास्पदम् (पड़ाव) उज्जयिनी-जनपदे भविष्यति। प्रथमे दिने कानीपुरा-ग्रामे यात्रिणां निवासाय, भोजनाय, चायपान-अल्पाहाराय च व्यवस्था कृता अस्ति। अग्रेऽपि प्रति-त्रि-किलोमीटरे चायपानस्य, प्रातःकालीन-अल्पाहारस्य, उभयोः समययोः च भोजनस्य व्यवस्थायै जनाः अग्रे समागताः। परमारस्य अनुसारेण बहवः जनाः व्यवस्थायां सहयोगाय निवारणीयाः अभवन्, यतोहि पर्याप्तसङ्ख्याकाः जनाः पूर्वमेव अग्रे आगताः।
सः अकथयत् यत् यात्रां प्रायः सप्तति-दिनेषु (७०) सम्पूर्णीकर्तुं लक्ष्यं निर्धारितम्। अस्यान्तर्गतं प्रतिदिनं प्रायः पञ्चदश-किलोमीटर् (१५) पादाभ्यां चलनस्य योजना वर्तते। दिग्विजयसिंहः यात्रायाः सिद्धतायै प्रतिदिनं प्रायः अष्ट-किलोमीटर् (८) पादचालनस्य अभ्यासं कुर्वन् आसीत्। यात्रया सह एकः विशिष्टः रथोऽपि चलिष्यति। अस्मिन् रथे भगवतः रामस्य, लक्ष्मणस्य, मातुः सीतायाः, हनूमतश्च प्रतिमाः प्रतिष्ठापिताः सन्ति। रथे गङ्गा, यमुना, क्षिप्रा, कावेरी, नर्मदा इत्यादीनां जलेन पूरिताः कलशाः अपि स्थापयिष्यन्ते। भरतपोरवालस्य निर्देशने महावीरजैनः सतीशशर्मा च अस्य रथस्य निर्माणम् अकुरुताम्।
हर्षया यात्रायाम् उत्थापिताः प्रश्नाः, सा अवदत्— ‘निर्वाचने समीपे आगते रामः स्मर्यते, मन्दिरे निर्मिते सति तादृशी प्रसन्नता न प्रदर्शिता’
इतः दिग्विजयसिंहस्य यात्रायाम् रूपदर्शिनीतः (मॉडल) साध्वी सञ्जाता हर्षा रिछारिया अर्थात् हर्षानन्दगिरिः व्यङ्ग्यम् अकरोत्। सा मङ्गलवासरे यात्रायाः आरम्भात् पूर्वं वार्तामाध्यमैः सह सम्भाषणे अवदत् यत् यदा राममन्दिरं निर्मितं, तदा तादृशी प्रसन्नता उत्साहश्च न दृष्टः, यादृशः अधुना मन्दिरस्य दानम् अधिकृत्य प्रश्नानाम् उत्थापने दृश्यते। हर्षा अपृच्छत् यत् निर्वाचने समीपे आगते सति भगवतः रामस्य स्मरणं किमर्थं भवति, अधुना तस्मै न्यायप्रदानस्य सङ्कल्पः किमर्थं गृह्यते।
हर्षा दिग्विजयसिंहस्य साक्षात् नामग्रहणापेक्षया तं ‘मध्यप्रदेशस्य भूतपूर्व-मुख्यमन्त्री’ इति सम्बोधितवती। तया राममन्दिरनिर्माणं प्रति प्रवृत्तस्य दीर्घ-न्यायालयीन-सङ्घर्षस्य उल्लेखं कुर्वत्या विपक्षोपरि मन्दिरनिर्माण-निर्णयस्य विरोधकरणस्य आरोपः कृतः। सा व्यङ्ग्येन अवदत् यत् राममन्दिरस्य दाने कथित-चौर्येण एतावती पीडा सञ्जाता यत् अधुना भगवते रामाय न्यायप्रदानाय जनाः निर्गताः सन्ति। तया यात्रायाः मनोगतं (उद्देश्यं) सन्दिह्य निर्वाचनस्य समीपागमनं कस्यचित् पदप्रापणस्य सम्भावनाश्चोल्लेखिताः। तथापि सा इदमपि अकथयत् यत् यात्रानिष्कासकस्य मनोकामना पूर्णा भविष्यति न वा इति सा न जानाति, किन्तु देशाय यत् समुचितं भविष्यति, तदेव भविष्यति।
---------------
Hindusthan Samachar / Divya Ranjan