गङ्गानद्याः उपरि अक्टोबरमासस्य २५ दिनाङ्के वायुसैनिकप्रदर्शने द्रक्ष्यते दुर्लभं दृश्यम्, प्रधानमन्त्री मुख्यातिथिः भविष्यति
वाराणसी, २० अक्टोबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अक्टोबरमासस्य २५ दिनाङ्के वाराणस्यां नमोघाटे आयोजिते भारतीयवायुसेनायाः भव्ये वायुयानप्रदर्शने मुख्यातिथिरूपेण सम्मि-लितः भविष्यति। मङ्गलवासरे वाराणस्यां वायुसेनाकार्यालये आयोजितायां वार्ता
प्रेस वार्ता करते तीनों अधिकारी


वाराणसी, २० अक्टोबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अक्टोबरमासस्य २५ दिनाङ्के वाराणस्यां नमोघाटे आयोजिते भारतीयवायुसेनायाः भव्ये वायुयानप्रदर्शने मुख्यातिथिरूपेण सम्मि-लितः भविष्यति। मङ्गलवासरे वाराणस्यां वायुसेनाकार्यालये आयोजितायां वार्ताहर-गोष्ठ्यां वायुसेनायाः एयरवाइस मार्शल् पीवीएस नारायणः, आरक्षकायुक्तः मोहित अग्रवालः, मण्डलायुक्तः एस. राजलिङ्गम् च संयुक्तरूपेण एतां सूचनां प्रदत्तवन्तः।

ते अवदन् यत् वाराणस्यां अक्टोबरमासस्य २२, २४, २५ दिनाङ्केषु गङ्गानद्याः उपरि आयोज्यमानं वायुयानप्रदर्शनं लक्षा-धिकानां जनानां कृते दुर्लभं दृश्यम् उपस्थापयिष्यति। अस्य वायुयानप्रदर्शनस्य नाम ‘विङ्ग्स ओवर गङ्गेज’ इति निर्धारितम् अस्ति। अस्मिन् प्रदर्शने आहत्य १०० विमानानि भागं ग्रहीष्यन्ति। तेषु ५२ युद्धविमानानि, १५ परिवहनविमानानि, ३२ हेलिकॉप्टरयानानि, एकं च ऐतिहासिकं विमानम् अन्तर्भवन्ति। एतै: सह भारतीयवायुसेनायाः ‘गरुड’ इति विशेषसेनादलम् अपि भागं ग्रहीष्यति। एतानि विमानानि देशस्य विभिन्नेभ्यः १२ विमानस्थानकेभ्यः उड्डयनं करिष्यन्ति। तेषु चेन्नईनगरस्य समीपे स्थितं ‘अरक्कोणम्’ इति नौसैनिकविमानस्थानकम् अपि अन्तर्भवति। एतत् प्रदर्शनं भारतस्य वायुमण्डलीयशक्तेः व्यापकतां सामरिक-सामर्थ्यस्य च विस्तारं प्रदर्शयिष्यति।

ते उक्तवन्तः यत् वाराणस्याः नमोघाटे आयोज्यमानं ‘भारतीयवायुसेनायाः वायुयानप्रदर्शनम्-२०२६’ इति कार्यक्रमः राष्ट्राय भारतीयवायुसेनया समर्पितानां ९४ वर्षाणां सेवायाः उपलक्ष्ये आयोजितः भवति। अस्मिन् कार्यक्रमे गङ्गानद्याः उपरि भारतीयवायुसेनायाः वायुमण्डलीयशक्तेः प्रदर्शनं भविष्यति। एतत् प्रदर्शनं युवजनान् प्रेरयिष्यति तथा च राष्ट्रस्य सुरक्षां प्रति भारतीयवायुसेनायाः अटलप्रतिबद्धतां पुनः दृढीकरिष्यति। अस्य आयोजनस्य कृते वाराणस्यां घाटानां समीपे ११ क्षेत्राणि निर्मितानि सन्ति।

ते अवदन् यत् अक्टोबरमासस्य २५ दिनाङ्के आयोजिते वायुयानप्रदर्शने प्रधानमन्त्री नरेन्द्रमोदी मुख्यातिथिः भविष्यति। देशस्य अन्ये प्रमुखाः जनाः अपि अस्मिन् कार्यक्रमे उपस्थिताः भविष्यन्ति इति सम्भावना अस्ति। अस्मिन् वायुयानप्रदर्शने विमानानां २५ समूहाः भागं ग्रहीष्यन्ति। भारतीयवायुसेनायां समाविष्टानां विविधप्रकारकाणां विमा-नानां प्रदर्शनं भवेत् इति धिया एतेषां समूहानां योजना अत्यन्तं सावधानतया कृता अस्ति। उत्कृष्टसमन्वयेन सह प्रदर्श्यमानानां वायुकौशलानां माध्यमेन विमानानां कार्यक्षमतां वायुसेनायाः व्यावसायिकदक्षतां च प्रकाशयितुम् अस्य प्रदर्शनस्य उद्देश्यम् अस्ति।

अस्मिन् वर्षे आयोजिते विमानोड्डयन-प्रदर्शने हेलिकॉप्टरयानानि, परिवहन-विमानानि, युद्धविमानानि च भागं ग्रहीष्यन्ति। हेलिकॉप्टरयानसमूहे एल-सीएच, चिनूक, एलसीएच एमके थ्री, एलसीएच एमके फोर, अपाचे, चेतक, कामोव-३१ तथा एमआई-१७ वी-५ इत्येतानि विमानानि भविष्यन्ति।

परिवहनविमानसमूहे सी-२९५, सी-१७, सी-१३०, एईडब्ल्यूसी, आईएल-७८, एएन-३२ तथा पी-८आई इत्येतानि विमानानि समाविष्टानि भविष्यन्ति। युद्धविमानसमूहे एसयू-३० एमके एल्, मिराज-२०००, राफेल, एलसीए, मिग-२९ तथा जगुआर इत्येतानि विमानानि भागं ग्रहीष्यन्ति।

एतदतिरिक्तं हार्वर्डविमानम्, ‘सूर्यकिरण’ तथा ‘सारङ्ग’ इति वायुयानप्रदर्शनदलानि च आकर्षणस्य केन्द्राणि भविष्यन्ति। अस्मिन् प्रदर्शने भारतीयसेनायाः द्वे एलसीएच हेलिकॉप्टरयाने, भारतीय-नौसेनायाः एकं पी-८आई विमानम्, एकं च कामोव-३१ विमानम् अपि भागं ग्रहीष्यतः।

Hindusthan Samachar / Divya Ranjan