ब्रह्माकुमारीसंस्थायां विजयादशम्याः अवसरे आन्तरिकदुर्गुणानां त्यागस्य सङ्कल्पः
बीके बिन्दुदीदी इत्यनया विजयतिलकः कृतः, राजयोगध्यानमाध्यमेन आत्मबल-वर्धनस्य सन्देशः प्रदत्तः मीरजापुरम्, २० अक्टोबरमासः (हि.स.)। शुक्लहास्थिते ब्रह्माकुमारीसंस्थायाः प्रभु-उपहार-भवने मङ्गलवासरे विजयादशमीपर्व आध्यात्मिकोल्लासेन आचरितम्। कार्यक्रमे
विजय तिलक लगाती बीके बिंदु दीदी


बीके बिन्दुदीदी इत्यनया विजयतिलकः कृतः, राजयोगध्यानमाध्यमेन आत्मबल-वर्धनस्य सन्देशः प्रदत्तः

मीरजापुरम्, २० अक्टोबरमासः (हि.स.)। शुक्लहास्थिते ब्रह्माकुमारीसंस्थायाः प्रभु-उपहार-भवने मङ्गलवासरे विजयादशमीपर्व आध्यात्मिकोल्लासेन आचरितम्। कार्यक्रमे सेवाकेन्द्रस्य प्रभारी बीके बिन्दुदीदी इत्यनया जनानां कामक्रोधलोभमोहमदादीन् विकारान् विजेतुं सन्देशः प्रदत्तः।

बीके बिन्दुदिद्या अवदत् यत् विजयादशमी केवलं रावणस्य उपरि विजयस्य पर्व नास्ति, अपितु स्वान्तर्गतदुर्गुणानां समूलं नाशयितुं प्रेरणामपि ददाति। प्रत्येकं व्यक्तिः स्वकीयाः दुर्बलताः अभिज्ञाय नकारात्मकसंस्कारान् त्यजेत्। श्रेष्ठविचाराणां संस्काराणां च स्वीकरणेन एव जीवने सुखशान्त्योः स्थापनां कर्तुं शक्यते।

कार्यक्रमे उपस्थिताः भ्रातरः भगिन्यश्च स्वकीयाः न्यूनताः लिखित्वा तासां त्यागस्य सङ्कल्पं कृतवन्तः। राजयोगध्यानमाध्यमेन आत्मिकशक्तेः सकारात्मकतायाश्च अभ्यासः कृतः। ततः बीके बिन्दुदिद्यया उपस्थितेभ्यः जनेभ्यः विजयतिलकं कृत्वा आन्तरिकविजयस्य शुभकामनाः प्रदत्ताः।

अस्मिन्नवसरे शतशः भ्रातरः भगिन्यः, महिलाः वरिष्ठनागरिकाश्च उपस्थिताः आसन्। सर्वैः दुर्गुणान् त्यक्त्वा श्रेष्ठसंस्कारान् स्वीकर्तुं जीवनं च शान्तिपूर्णं कर्तुं सङ्कल्पः कृतः।

Hindusthan Samachar / Divya Ranjan