Enter your Email Address to subscribe to our newsletters


लखनऊम्, २० अक्टोबरमासः (हि.स.)। उत्तरप्रदेशस्य राजधानी लखनऊ सहिते सम्पूर्णे प्रदेशे उत्साहोल्लासाभ्यां विजयादशमीपर्व आचर्यते। विभिन्नस्थानेषु शोभायात्राः निष्कासिताः, रावणस्य पुत्तलिकाः च दग्धाः। अनेन प्रकारेण दुष्टतायाः उपरि सदाचारस्य विजयस्य उत्सवः आचरितः। मुख्यमन्त्री योगी आदित्यनाथः गोरखपुरे आयोजितेषु कार्यक्रमेषु सम्मिलितः अभवत्।
स्वसम्बोधने सः अवदत् यत् एकतयैव राष्ट्रस्य रक्षा सम्भवति, यतः विदेशीयाः शक्तयः देशं समाजं च विभक्तुं षड्यन्त्राणि रचयन्ति। सः मुगलानाम् आक्रमणात् आरभ्य भारतीयसंस्कृतेः उपरि जायमानानां प्रहाराणां विस्तरेण उल्लेखं कृत्वा अवदत् यत् समाजेन एतादृशेभ्यः तत्त्वेभ्यः सावधानं भवितव्यम्। प्रदेशस्य प्रमुखेषु धार्मिकेषु सांस्कृतिकेषु च केन्द्रेषु—अयोध्यायाम्, वाराणस्याम्, प्रयागराजे चित्रकूटे च—दशहरा पर्व अत्यन्तं भव्यतया आचर्यते। अधर्मस्य उपरि धर्मस्य विजयस्य प्रतीकरूपेण रावणस्य, कुम्भकर्णस्य मेघनादस्य च विशालाः पुत्तलिकाः दग्धाः। पुत्तलिकादहनस्य क्रमः रात्रेः विलम्बितसमयपर्यन्तं प्रचलिष्यते।
प्रदेशस्य राजधानी लखनऊमपि विभिन्नेषु क्षेत्रेषु दशहरा पर्व महता उत्साहेन आचरितम्। विभिन्नस्थानेषु रामलीलायाः मञ्चनं कृत्वा रावणस्य पुत्तलिकाः दग्धाः। ऐशबागे, चौके गोमतीनगरे च रावणस्य पुत्तलिकादहनं द्रष्टुं बहुसङ्ख्यकाः जनाः समागताः। कानपुरे शिवालास्थिते दशाननमन्दिरे प्रातःकाले रावणस्य पूजार्चना कृता। जनैः दशाननस्य जयघोषाः कृताः। अत्र दशहरापर्वणि रावणस्य पूजां कुर्वन्ति।
रामनगर्यां अयोध्यायाम् अस्मिन् वर्षे दशहरा पर्व अतीव विशेषम् आसीत्। प्रसिद्धानां रामलीलानां मञ्चनस्य अनन्तरं प्रभुश्रीरामस्य स्वरूपधारिणा बाणं विमुच्य रावणस्य विशालपुत्तलिका दग्धा। काशीनगरे परम्परायाः आधुनिकतायाश्च अद्भुतः सङ्गमः दृष्टः। अत्र विश्वप्रसिद्धायां रामनगरे आयोजितायां रामलीलायां तथा बरेका-सिगरा इत्येतयोः प्रमुखेषु क्रीडाङ्गणेषु लक्षशः जनानां समक्षं रावणस्य पुत्तलिका दग्धा। गङ्गातटेषु अपि विशेषा शोभा आसीत्। तथैव सङ्गमनगर्यां प्रयागराजे कटरा-पथरचट्टी-रामलीला-समितीनां तत्त्वावधाने भव्याः शोभायात्राः निष्कासिताः। तदनन्तरम् उन्नतपुत्तलिकानां दहनं कृत्वा आतिशबाज्याः मनोहरं प्रदर्शनं कृतम्।
भगवत: श्रीरामस्य तपोभूमौ चित्रकूटे अपि दशहरा पर्वणः विशेषः उत्साहः आसीत्। अत्र मन्दाकिनीनद्याः तटेषु प्रमुखेषु क्रीडाङ्गणेषु च रामरावणयोः युद्धस्य सजीवमञ्चनानन्तरं रावणस्य पुत्तलिका दग्धा। सम्पूर्णे प्रदेशे अस्मिन् अवसरे सुरक्षाव्यवस्था अत्यन्तं सुदृढा आसीत्। जनाः आतिशबाजीं कुर्वन्तः ‘जय श्रीराम’ इति घोषं च कुर्वन्तः उत्सवम् आनन्देन आचरितवन्तः। विभिन्नेषु स्थानेषु रावणस्य पुत्तलिकानां दहनं भिन्नभिन्नसमयेषु भवति, अतः सुरक्षाव्यवस्थायां विशेषं ध्यानं दीयते।
Hindusthan Samachar / Divya Ranjan