Enter your Email Address to subscribe to our newsletters

नवदेहली, २१ अक्टूबरमासः(हि.स.)। कृषिक्षेत्रे कृषिकर्मणा सह सौर-ऊर्जा-उत्पादनस्य प्रवर्धनोद्देश्येन सप्तमं (७-तमम्) ‘एग्रीवोल्टाइक्स’ विश्वसम्मेलनं बुधवासरे अत्र भारतमण्डपम्-भवने आरब्धम्। अस्मिन् त्रिदिवसीये सम्मेलने १२००-तः अधिकाः प्रतिनिधयः भागं भजन्ते, येषु १५०-तः अधिकाः वैदेशिक-प्रतिभागिनः सम्मिलिताः सन्ति। अस्मिन् सम्मेलने कृषकाणाम् आय-संवर्धनस्य, जलवाय्वनुकूल-कृषिकर्मणः, स्वच्छोर्जायाश्च विस्तारस्य उपायानाम् उपरि विमर्शः भविष्यति।
केन्द्रीय-नवीन-तथा-नवीकरणीय-ऊर्जा-मन्त्रालयः जर्मन्याः पर्यावरण-जलवायु-कार्याचरण-प्रकृति-संरक्षण-तथा-परमाणु-सुरक्षा-मन्त्रालयेन सह संयुक्ततया एतत् सम्मेलनम् आयोजयति। अस्य आयोजनं ‘कोनेक्सियो-पीएसई’ इत्यनेन सह सम्भूय विधीयते। ‘ग्लोबल साउथ इत्यस्य ऊर्जाया सशक्तिकरणम्’ अस्याः मुख्य-विषयवस्तु वर्तते। प्रथमतया अस्य वैश्विक-सम्मेलनस्य आयोजनं ‘ग्लोबल साउथ’ (वैश्विक-दक्षिणस्य) कस्मिश्चित् देशे जायमानम् अस्ति।
कृषि-तथा-कृषककल्याण-मन्त्री शिवराजसिंहचौहानः, केन्द्रीय-नवीन-तथा-नवीकरणीय-ऊर्जा-मन्त्री प्रह्लादजोशी च उद्घाटनसत्रे सम्बोधनम् अकुरुताम्। जर्मन्याः पर्यावरणमन्त्री कार्स्टन श्नाइडरः ‘दृश्य-सन्देशं’ (वीडियो-सन्देशं) प्रादात्, यदा तु भारते जर्मनी-भूटानयोः राजदूतः डॉ. जैस्पर विकः समापन-टिप्पणीम् अकरोत्। नवीन-तथा-नवीकरणीय-ऊर्जा-मन्त्रालयस्य सचिवः सन्तोषकुमारसारङ्गी स्वागतभाषणम् अयच्छत्। केन्द्रीय-राज्यमन्त्री श्रीपाद येसो नाइकः अपि कार्यक्रमे उपस्थितः आसीत्।
सम्मेलनस्य काले त्रीणि ज्ञानसंसाधनानि प्रसारितानि (विमोचितानि)। एतेषु ‘इण्डिया एग्रीवोल्टाइक्स अलायन्स’ इत्यस्य ‘निर्णय-सहायता-साधनम्’, ‘अन्ताराष्ट्रिय-जलप्रबन्धन-संस्थानस्य’ शोध-सार-पुस्तिका तथा ‘नवीन-तथा-नवीकरणीय-ऊर्जा-मन्त्रालयस्य’ ‘एग्रीपीवी’ नीति-पुस्तिका च सम्मिलिताः सन्ति।
सम्मेलने कृषि-उत्पादकता, सौर-प्रविधिः (तकनीक), वित्तपोषणं, नीतिगत-संरचना, जलवाय्वनुकूल-कृषिः, कृषकेभ्यश्च चिरस्थायि-वाणिज्यिक-प्रतिमानानि (टिकाऊ बिजनेस मॉडल) इत्येतेषां विषये चर्चा भविष्यति। सहैव ‘प्रारम्भिक-उद्यम’ (स्टार्टअप) तथा ‘नवाचार-मञ्चस्य’ अन्तर्गतं नूतनाः प्रविधयः प्रदर्श्यन्ते। अस्योद्देश्यं स्वच्छोर्जा-क्षेत्रस्य नवाचारकर्तृणां, निवेशकानां, उद्योगजगतश्च मध्ये सहयोगवर्धनं वर्तते।
‘एग्रीवोल्टाइक्स’-प्रविधौ एकस्याः एव भूमेः उपयोगः कृषिकर्मणे तथा सौर-ऊर्जा-उत्पादनाय चोभाभ्यां क्रियते। अनेन कृषकाणां कृते अतिरिक्त-आयस्य अवसराः उत्पद्यन्ते। सम्मेलनेऽस्मिन् अनया प्रविध्या कृषकान् ‘अन्नदातुः’ सकाशात् ‘ऊर्जादातारं’ विधातुं, ग्रामीणोद्यमितां प्रोत्साहयितुं, जलवायु-परिवर्तनस्य प्रभावेभ्यः कृषेः रक्षणस्य सम्भावनासु बलं दत्तम्।
___________
Hindusthan Samachar / Divya Ranjan