Enter your Email Address to subscribe to our newsletters

मुम्बई, २१ अक्टोबरमासः (हि.स.)। नेटफ्लिक्स-मञ्चेन स्वस्य आगामी-चलचित्रस्य ‘मीठे में क्या है’ इत्यस्य पूर्वदृश्यं प्रसारितम्। ऋत्विकभौमिकः तथा रोहिणीहट्टङ्गडी अभिनीतम् इदं चलचित्रं पारिवारिक-सम्बन्धान्, दीपावली-महोत्सवस्य उल्लासं, गृहे जायमानां च गतिविधिं हास्यपूर्णशैल्या प्रस्तुतयति। अस्य चलचित्रस्य माध्यमेन राधिका बंसलतौर निर्देशनक्षेत्रे पदार्पणं कुर्वती अस्ति। अजीतमोहनेन उत्थान-कैपिटल-संस्थायाः बैनरतले अस्य निर्माणं कृतम्। चलचित्रे आयशा रजा मिश्रा, अभयकौलः, तराना राजा, गौरवः के शर्मा तथा विक्रमबख्शी अपि प्रमुखभूमिकासु दृश्यन्ते।
चलचित्रस्य कथा एकस्य मध्यमवर्गीय-भारतीयपरिवारस्य परितः परिभ्रमति, यस्मिन् दीपावलीमहोत्सवस्य आयोजनाय सर्वे सम्बन्धिनः एकस्मिन् गृहे एकत्र समागच्छन्ति। उत्सवस्य हर्षोल्लासस्य पारिवारिकमेलनस्य च मध्ये तदा नूतनं वलनं जायते, यदा सहसा विवाहस्य घोषणा क्रियते। ततः परं गृहे चर्चानां, संशयानां, विविधासां च घटनानां क्रमः प्रारभते। पूर्वदृश्ये दैनन्दिनजीवने पारिवारिकसम्बन्धानां मध्ये जायमाना्स्य कलहस्य तथा परिवारसदस्यानां मध्ये जायमानानां हास्यपूर्णघटनानां च दृश्यं दृश्यते।
दीपावलीमहोत्सवस्य वातावरणेन पारिवारिकमनोरञ्जनेन च समलङ्कृतम् इदं चलचित्रं दर्शकेभ्यः हास्येन सह सम्बन्धानां कथां प्रस्तोतुं प्रयतते। पूर्वदृश्यस्य प्रसारणेन सह चलचित्रस्य प्रदर्शनतिथिरपि घोषितास्ति। ‘मीठे में क्या है’ इति चलचित्रं ३० अक्टोबरदिनाङ्के नेटफ्लिक्स-मञ्चे प्रदर्शितं भविष्यति।
Hindusthan Samachar / Divya Ranjan