सक्रिय-राजनीतौ पुनरागत्य पूर्वराष्ट्रपतिः भण्डारी प्रथमविदेशयात्रायां चीनदेशं गमिष्यति
चीनदेशस्य शियोंगआननगरे आयोज्य-मानं वैश्विकशासनमञ्चं सम्बोधयिष्यति काठमाण्डू, २१ अक्टोबरमासः (हि.स.)। नेपालस्य पूर्वराष्ट्रपतिः तथा नेपाल-कम्युनिस्टपार्टी इत्यस्याः वरिष्ठनेत्री विद्यादेवी भण्डारी गुरुवासरे चीनदेशस्य यात्रायां गमिष्यति। दलस्य वरि
पूर्व राष्ट्रपति विद्या भंडारी


- चीनदेशस्य शियोंगआननगरे आयोज्य-मानं वैश्विकशासनमञ्चं सम्बोधयिष्यति

काठमाण्डू, २१ अक्टोबरमासः (हि.स.)। नेपालस्य पूर्वराष्ट्रपतिः तथा नेपाल-कम्युनिस्टपार्टी इत्यस्याः वरिष्ठनेत्री विद्यादेवी भण्डारी गुरुवासरे चीनदेशस्य यात्रायां गमिष्यति। दलस्य वरिष्ठ-नेत्रीरूपेण सक्रियराजनीतौ पुनरागमना-नन्तरम् एषा तस्याः प्रथमा विदेशयात्रा भविष्यति।

भण्डार्याः निजी सचिवः राजकुमारराई इत्यस्य कथनानुसारं, भण्डारी अक्टोबर-मासस्य २३ तः २५ दिनाङ्कपर्यन्तं चीनदेशस्य हेबेईप्रान्ते शियोंग-आननगरे आयोज्यमाने वैश्विकशासनमञ्चे विशिष्टा-तिथिरूपेण सम्बोधनं दातुं चीनदेशं गच्छति। चीनदेशस्य विदेशसम्बन्धविषयक-जनसंस्थया आयोज्यमाने अस्मिन् मञ्चे विश्वस्य विभिन्नदेशेभ्यः राजनैतिकक्षेत्रस्य, कूटनीतिकक्षेत्रस्य, व्यावसायिकक्षेत्रस्य तथा सञ्चारमाध्यमक्षेत्रस्य प्रतिनिधयः भागं ग्रहीष्यन्ति।

सीपीआईएफए-संस्थया गतशुक्रवासरे प्रदत्तसूचनानुसारं, ग्लोबल् साउथ्, यूरोप-अमेरिकादेशाः च समाविश्य प्रायः शतदेशानां प्रतिनिधयः अस्मिन् मञ्चे भागग्रहणस्य पुष्टिं कृतवन्तः। परिवर्तमानवैश्विकव्यवस्थायाः सन्दर्भे अन्तरराष्ट्रीयसहयोगः, वैश्विकशासन-व्यवस्थायाः सुधारः, साइबर-अन्तरिक्षस्य तथा बाह्य-अन्तरिक्षस्य शासनसम्बद्धाः चुनौतीः, कृत्रिमबुद्धे: सुरक्षितोपयोगः इत्यादयः विषयाः अस्मिन् मञ्चे चर्चिताः भविष्यन्ति।

Hindusthan Samachar / Divya Ranjan