काठमाण्डूनगरस्य जीवितदेवीकुमार्या तलेजुभवानीदेव्याः दर्शनं कृतम्
काठमाण्डू, २१ अक्टोबरमासः (हि.स.)। काठमाण्डूनगरस्य जीवितदेवीकुमार्यै काठमाण्डूनगरस्य हनुमानढोकास्थितायाः तलेजुभवानीदेव्याः दर्शनं कारितम्। तलेजुभवानीदेव्याः दर्शनकारणस्य परम्परानुसारं मङ्गलवासरे अर्धरात्रौ तान्त्रिकवैदिकविधिभिः जीवितदेवीकुमार्यै तल
काठमांडू स्थित जीवित देवी कुमारी


काठमाण्डू, २१ अक्टोबरमासः (हि.स.)। काठमाण्डूनगरस्य जीवितदेवीकुमार्यै काठमाण्डूनगरस्य हनुमानढोकास्थितायाः तलेजुभवानीदेव्याः दर्शनं कारितम्। तलेजुभवानीदेव्याः दर्शनकारणस्य परम्परानुसारं मङ्गलवासरे अर्धरात्रौ तान्त्रिकवैदिकविधिभिः जीवितदेवीकुमार्यै तलेजुभवानीदेव्याः दर्शनं कारितम्। एतादृशी मान्यता अस्ति यत् तलेजुभवानीदेव्याः दर्शनात् शक्तिः प्राप्यते।

कुमारीगृहस्य व्यवस्थापकः गौतमशाक्यः अवदत् यत् रथयात्रया सह जीवित-देवीकुमारी सुरक्षितरूपेण कुमारीगृहात् तलेजुपरिसरं नीतवती। कुमार्यै दर्शनं कारयितुं तलेजुभवानीदेवी मन्दिरात् बहिः आनीय मूलचौके प्रतिष्ठापिता आसीत्। इतिहासानुसारं हनुमानढोकादरबारस्य उत्तरदिशि स्थिते त्रितले पैगोडाशैल्या निर्मिते मन्दिरे विराजमानां तलेजु-भवानीदेवीं मल्ल-राजानः स्वकुल-देवीरूपेण स्वीकृत-वन्तः आसन्।

Hindusthan Samachar / Divya Ranjan