Enter your Email Address to subscribe to our newsletters

रायपुरम्, २१ अक्टोबरमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मू अक्टोबरमासस्य २२ तथा २३ दिनाङ्कयोः छत्तीसगढस्य द्विदिवसीयप्रवासे स्थास्यति। अस्मिन् प्रवासकाले सा रायपुरे जगदलपुरे च आयोजितेषु विविधेषु कार्यक्रमेषु भागं ग्रहीष्यति।
राष्ट्रपतेः प्रवासम् उद्दिश्य प्रदेशे अनेकेषां महत्त्वपूर्णानाम् आयोजनानां सज्जताः क्रियन्ते। एषा सूचना प्रशासनद्वारा अद्य बुधवासरे प्रसारिता। राष्ट्रपतिः द्रौपदी मुर्मू अक्टोबरमासस्य २२ दिनाङ्के, गुरुवासरे, स्वस्य द्विदिवसीयच्छत्तीसगढप्रवासस्य प्रथमदिने मध्याह्नात् १२:४५ वादनात् पूर्वं रायपुरं प्राप्स्यति।
निर्धारितकार्यक्रमानुसारं राष्ट्रपतिः अक्टोबरमासस्य २२ दिनाङ्के रायपुरस्थिते लोकभवने मध्याह्ने १२:४५ वादने पूज्यायाः मातुः हासिदेवीजी इत्यस्याः सम्मानार्थं २०० रूप्यकमूल्यवर्गस्य स्मारकमुद्रां विमोचयिष्यति। ततः सायं ४ वादने बूढापारास्थिते बलबीरसिंहजुनेजा-आच्छादितक्रीडाङ्गणे नुआखाईपर्वणः अवसरे आयोजिते ‘सेवासम्मानपर्वणि’ ‘युवप्रबोधन’कार्यक्रमे च मुख्यातिथिरूपेण भागं ग्रहीष्यति। निर्धारितकार्यक्रमानन्तरं राष्ट्रपतिः लोकभवने रात्रिविश्रामं करिष्यति।
प्रवासस्य द्वितीयदिने राष्ट्रपतिः रायपुरात् जगदलपुरं प्रति प्रस्थास्यति। प्रस्तावितकार्यक्रमानुसारं सा प्रातः ११ वादने मातुः दन्तेश्वर्याः मन्दिरं प्राप्य पूजार्चनां करिष्यति तथा च आशीर्वादं प्राप्स्यति। ततः मध्याह्ने १२:४५ वादने बस्तरदशहरायाः पारम्परिके ‘मुरियादरबार’ इत्याख्ये आयोजने भागं ग्रहीष्यति। राष्ट्रपतेः उपस्थित्या अस्य ऐतिहासिकस्य आयोजनस्य महत्त्वम् अधिकं वर्धिष्यते इति अपेक्षा अस्ति।
बस्तरस्य मुरियादरबारः केवलं धार्मिकं सांस्कृतिकं वा आयोजनं न, अपितु आदिवासीसमाजस्य ऐतिहासिक्याः जनश्रवणपरम्परायाः प्रतीकः अस्ति। बस्तरदशहरायाः प्रमुखासु परम्परासु अन्तर्भूते अस्मिन् दरबारे पूर्वं राजानः सामान्यजनानाम् आदिवासीप्रतिनिधीनां च समस्याः शृण्वन्ति स्म। परम्परानुसारं राजानः राजकीयवस्त्राणि त्यक्त्वा साधारणवस्त्राणि धृत्वा जनानां मध्ये उपविशन्ति स्म तथा च तेषां परिवेदनानां समाधानार्थं निर्देशान् ददति स्म। कालान्तरे अस्याः परम्परायाः स्वरूपे परिवर्तनम् अभवत्। अधुना विभिन्नग्रामाणां प्रमुखा: पारम्परिकप्रतिनिधयश्च अस्मिन् भागं गृहीत्वा क्षेत्रस्य समस्याः प्रस्तुवन्ति।
राष्ट्रपतेः अयं प्रवासः छत्तीसगढस्य सांस्कृतिकपरम्पराणां, लोकश्रद्धायाः सामाजिकायोजनानां च दृष्ट्या महत्त्वपूर्णः मन्यते। रायपुरात् बस्तरपर्यन्तं विविधेषु कार्यक्रमेषु तस्याः सहभागितया प्रदेशस्य सांस्कृतिकवैभवाय पारम्परिकोत्सवेभ्यश्च राष्ट्रियस्तरे विशिष्टं परिचयं प्राप्स्यते।
Hindusthan Samachar / Divya Ranjan