Enter your Email Address to subscribe to our newsletters

निर्देशकस्य नीतेशतिवारिणः पौराणिक-चलच्चित्रेण ‘रामायणम्: प्रथमभागः’ इत्यनेन अग्रिम-आरक्षणे शोभनः प्रारम्भः कृतः। रणबीरकपूर-अभिनीतस्य अस्य चित्रपटस्य आरक्षणं विजयादशमी-पर्वणः आरब्धम् आसीत्। बुधवासरे मध्याह्ने द्वादशवादनं यावत् समग्रे देशे अस्य एकनवति-सहस्राधिकाः प्रवेशचीटिकाः विक्रिताः आसन्। चलच्चित्रेऽस्मिन् साई पल्लवी, यशः, रविदुबे, अरुणगोविलः, सनी देओलः चापि महत्त्वपूर्णासु भूमिकासु दृश्यन्ते। इदं चलच्चित्रं ५ नवम्बर्-दिनाङ्के विश्वस्य चलच्चित्रगृहेषु प्रसारयिष्यते।
वार्तानुसारं चित्रपटस्य ३,५४२ प्रदर्शनेभ्यः अधुनावधि ९१,१२५ प्रवेशपत्राः विक्रिताः सन्ति। अनेन प्रायः ५.३५ कोटि-रूप्यकाणाम् अग्रिम-आरक्षण-सङ्ग्रहः जातः। प्रतिबद्धानाम् आसनानां निष्कासनानन्तरम् एषा सङ्ख्या प्रायः ३ कोटि-रूप्यकाणि इति कथ्यते। नगराणां दृष्ट्या देहली-एनसीआर-क्षेत्रम् अग्रेसरम् अस्ति, यत्र चलच्चित्रेण प्रायः १.५० कोटि-रूप्यकाणाम् उपार्जनं कृतम्। मुम्बई-नगरम् १.०८ कोटि-रूप्यकैः सह द्वितीये, पुणे-नगरं च २९.६५ लक्ष-रूप्यकैः सह तृतीये स्थाने वर्तते।
चलच्चित्रस्य अग्रिम-आरक्षणे हिन्दी-संस्करणस्य बृहत्तमं योगदानम् अस्ति। प्रतिवेदनानुसारं हिन्दी-संस्करणात् प्रायः ५.०७ कोटि-रूप्यकाणां सङ्ग्रहः अभवत्, यत् समग्र-उपार्जनस्य प्रायः पञ्चनवतिः प्रतिशतं वर्तते। कन्नड-संस्करणात् २७.११ लक्ष-रूप्यकाणाम् उपार्जनं जातं, यदा तु तेलुगु-संस्करणस्य उपार्जनम् अष्टचत्वारिंशत्-सहस्र-सप्तशतं रूप्यकाणि कथितम् अस्ति। सम्प्रति चलच्चित्रस्य औसतः आसन-पूरण-दरः प्रायः द्वादश प्रतिशतं वर्तते। प्रदर्शने अद्यापि समयस्य शेषत्वात् आरक्षण-सङ्ख्यायां पुनरपि वृद्धेः आशा प्रकटीक्रियते।
----------------------
Hindusthan Samachar / Divya Ranjan