श्रीकेदारनाथधामयात्रा सुचारुरूपेण प्रचलति, अधुना यावत् १७.७५ लक्षाधिकाः श्रद्धालवः दर्शनं कृतवन्तः
देहरादूनम्, २१ अक्टोबरमासः (हि.स.)। श्रीकेदारनाथधामस्य कपाटानि आगामी ११ नवम्बरदिनाङ्के शीतकालाय पिधास्यन्ते। सम्प्रति यात्रा सुचारुरूपेण प्रचलति। विगतसप्ताहात् अनुकूलम् ऋतुं भवितुं यात्रा-व्यवस्थाः सामान्याः सन्ति। हेलिसेवाः अपि सुचारुरूपेण सञ्चाल्
श्रीकेदारनाथधामयात्रा सुचारुरूपेण प्रचलति, अधुना यावत् १७.७५ लक्षाधिकाः श्रद्धालवः दर्शनं कृतवन्तः


देहरादूनम्, २१ अक्टोबरमासः (हि.स.)। श्रीकेदारनाथधामस्य कपाटानि आगामी ११ नवम्बरदिनाङ्के शीतकालाय पिधास्यन्ते। सम्प्रति यात्रा सुचारुरूपेण प्रचलति। विगतसप्ताहात् अनुकूलम् ऋतुं भवितुं यात्रा-व्यवस्थाः सामान्याः सन्ति। हेलिसेवाः अपि सुचारुरूपेण सञ्चाल्यन्ते।

रुद्रप्रयागस्य जनपदाधिकारी विशालमिश्रः अवदत् यत् अस्यां वर्षस्य यात्रायाम् अधुना यावत् १७,७५,०५९ श्रद्धालवः श्रीकेदारनाथ-धामम् आगत्य बाबा केदारस्य दर्शनं कृतवन्तः।

जिलाप्रशासनस्य प्रयासः अस्ति यत् यात्रायाः अवशिष्टेषु दिनेष्वपि देशस्य विभिन्नभागेभ्यः आगच्छद्भ्यः श्रद्धालुभ्यः निरन्तरं उत्तमसुविधाः प्रदीयेरन्, येन तेषां यात्रा सुगमा, सुरक्षिता, सुविधापूर्णा च भवेत्। सः अवदत् यत् धामक्षेत्रे लघुहिमपातेन सह तापमाने अपि निरन्तरं न्यूनता भवति। अतः श्रद्धालुभिः ऋतो: अनुकूला: आवश्यकसज्जताः कृत्वैव यात्रा करणीया।

सः सर्वान् तीर्थयात्रिणः आग्रहं कृतवान् यत् श्रीकेदारनाथधामयात्रायाः कृते आगमनात् पूर्वम् ऋतो: स्थितेः विषये सूचनाम् अवश्यं प्राप्नुयुः। ते पर्याप्तानि उष्णवस्त्राणि, आवश्यकसामग्रीः, स्वावश्यकतानुसारं औषधानि च सह आनयेयुः। सः अवदत् यत् जनपदप्रशासनेन श्रद्धालूनां सुविधायै सुरक्षायै च आवश्यकाः व्यवस्थाः सुनिश्चिताः कृताः सन्ति। श्रद्धालवः ऋतुस्थितिं ध्याने निधाय यात्रां कुर्युः तथा प्रशासननिर्गतान् निर्देशान् पालयेयुः।

Hindusthan Samachar / Divya Ranjan