योगिसर्वकारे निवेशपरियोजनानां कार्यान्वयनाय तीव्रः प्रयासः, समयबद्धसमाधानस्य च प्राधान्यम्।
निवेशकानां समस्यानां निराकरणाय अनुमतिप्रक्रियासु विलम्बनिवारणाय च आईआईडीसी दीपककुमारस्य निर्देशाः * शिक्षा, अचलसम्पत्तिः, नवीकरणीय ऊर्जा, खाद्यप्रसंस्करणं पर्यटनक्षेत्रं च सम्बद्धानां परियोजनानां समीक्षा * विभागीयसमन्वयेन निवेशप्रस्तावानां कार्
CHIEF MINISTER YOGI ADITYANATH ADDRESSING THE NATURAL FARMING WORKSHOP 2026.


* निवेशकानां समस्यानां निराकरणाय अनुमतिप्रक्रियासु विलम्बनिवारणाय च आईआईडीसी दीपककुमारस्य निर्देशाः

* शिक्षा, अचलसम्पत्तिः, नवीकरणीय ऊर्जा, खाद्यप्रसंस्करणं पर्यटनक्षेत्रं च सम्बद्धानां परियोजनानां समीक्षा

* विभागीयसमन्वयेन निवेशप्रस्तावानां कार्यान्वयने गतिः भविष्यति, रोजगारसृजनम् औद्योगिकविकासश्च प्रोत्साहयितुं सज्जता

लखनऊ, २१ अक्टोबरमासः (हि.स.)। मुख्यमन्त्रिणः योगी आदित्यनाथस्य नेतृत्वे उत्तरप्रदेशं निवेशस्य औद्योगिकविकासस्य च प्रमुखकेन्द्रं कर्तुं राज्यसर्वकारेण निवेशपरियोजनानां शीघ्रकार्यान्वयनस्य विषये बलं प्रदत्तम्। बुधवासरे इन्वेस्ट यूपी कार्यालये अवस्थापनायाः औद्योगिकविकासस्य च आयुक्तस्य (आईआईडीसी) दीपककुमारस्य अध्यक्षतायां उच्चस्तरीयसमन्वयसमितेः उपवेशनम् आयोजितम्। उपवेशने निवेशकानां समस्याः निर्धारितसमयसीमायां समाधातुं, विभिन्नविभागानां मध्ये समन्वयं वर्धयितुं तथा च आवश्यकस्वीकृतीनां प्रक्रियां त्वरयितुं निर्देशाः प्रदत्ताः।

योगिसर्वकारस्य प्राथमिकता अस्ति यत् निवेशप्रस्तावाः केवलं पत्रेषु सीमिताः न तिष्ठेयुः, अपितु तेषां वास्तविककार्यान्वयनं भवेत्, औद्योगिकक्रियाकलापानां विस्तारः स्यात् तथा च प्रदेशे रोजगारस्य नवीनावसराः सृज्येरन्। एतमेव उद्देश्यम् अग्रे स्थापयित्वा उपवेशने विभिन्नक्षेत्राणां परियोजनानां कार्यान्वयने सम्मुखीभूतानां व्यावहारिकबाधानां समीक्षा कृता।

निवेशकेभ्यः समयबद्धस्वीकृतीः प्रदातुं निर्देशाः

आईआईडीसी दीपककुमारः सम्बन्धितविभागेभ्यः प्रक्रियाः सरलीकर्तुं, लम्बितप्रकरणानां प्राथमिकतया निराकरणं कर्तुं तथा च निर्धारितसमयसीमायां स्वीकृतीः प्रदातुं निर्देशान् दत्तवान्। सः उक्तवान् यत् निवेशकेभ्यः नियामकप्रक्रियाभिः आधारभूतसुविधाभिश्च सम्बद्धानां समस्याणां समाधानार्थं समयबद्धसहायता प्रापणीया। प्रशासनिकस्तरे उत्तमसमन्वयेन उत्तरदायित्वेन च निवेशपरियोजनानां कार्यान्वयने अनावश्यकविलम्बः निवारयितुं शक्यते।

षट् प्रमुखक्षेत्राणां परियोजनानां समीक्षा

उपवेशने शिक्षाक्षेत्रस्य, अचलसम्पत्तिक्षेत्रस्य, नवीकरणीयऊर्जाक्षेत्रस्य, प्लग-एण्ड-प्ले औद्योगिकपार्कानां, खाद्यप्रसंस्करणक्षेत्रस्य, होटल-विश्रामगृहाणां तथा पर्यटनक्षेत्रस्य परियोजनाभिः सम्बद्धाः विषयाः चर्चिताः। भूम्युपयोगपरिवर्तनम्, वैधानिकस्वीकृतयः, शुल्केषु छूटः, अनुदानप्रतिपूर्तिः तथा आधारभूतसुविधानाम् उपलब्धता इत्यादीनां विषयाणां समीक्षा कृता। लम्बितसमस्यानां समाधानाय सम्बन्धितविभागैः समन्वितकार्यवाही करणीया इति विशेषतया बलं प्रदत्तम्।

विभागीयसमन्वयेन औद्योगिकविकासस्य गतिः वर्धिष्यते

उपवेशने पर्यटनविभागस्य, उत्तरप्रदेशराज्यऔद्योगिकविकासप्राधिकरणस्य (यूपीसीडा), विद्युत्निगमस्य, उत्तरप्रदेशस्य नवीन-नवीकरणीयऊर्जाविकासाभिकरणस्य (यूपीनेडा), वनविभागस्य, राजस्वविभागस्य, उद्यानविभागस्य तथा आवासविकासविभागस्य प्रतिनिधयः भागं गृहीतवन्तः। एतेषां विभागानां सम्बद्धानां लम्बितप्रकरणानां समीक्षां कुर्वन्तः परियोजनाभ्यः आवश्यकसुविधानां स्वीकृतीनां च उपलब्धताविषये चर्चा कृता।

इन्वेस्ट यूपी संस्थायाः मुख्यकार्यपालकाधिकारी विजयकिरणआनन्दः उपवेशने उपस्थितः आसीत्। बाराबङ्कीजनपदस्य जिलाधिकारी ईशानप्रतापसिंहः अन्ये वरिष्ठाधिकारिणः उद्योगजगतः प्रतिनिधयश्च आभासीयमाध्यमेन उपवेशने सम्मिलिताः अभवन्।

Hindusthan Samachar / Dheeraj Maithani