उत्तरप्रदेशारक्षिबलस्य ‘गणवेशे’ दृश्यते बलिदानस्य गाथा, स्वजनवियोगस्य दुःखं राष्ट्रसेवायाश्च प्रबलभावना।
आरक्षिस्मृतिदिवसस्य २०२६ तमस्य वर्षस्य अवसरे अमरहुतात्मनां श्रद्धाञ्जलिसमर्पणार्थं विशेषोपक्रमः * प्रसिद्धेन बॉलिवुड् चलचित्रनिर्देशकेन तिग्मांशुधूलियावर्येण निर्देशितं ‘वर्दी’ इति लघुचलच्चित्रम् उत्तरप्रदेशारक्षिबलेन स्वकीयेषु सामाजिकमाध्यममञ्च
वर्दी का पोस्टर


* आरक्षिस्मृतिदिवसस्य २०२६ तमस्य वर्षस्य अवसरे अमरहुतात्मनां श्रद्धाञ्जलिसमर्पणार्थं विशेषोपक्रमः

* प्रसिद्धेन बॉलिवुड् चलचित्रनिर्देशकेन तिग्मांशुधूलियावर्येण निर्देशितं ‘वर्दी’ इति लघुचलच्चित्रम् उत्तरप्रदेशारक्षिबलेन स्वकीयेषु सामाजिकमाध्यममञ्चेषु प्रसारितम्

* आरक्षिमहानिदेशकस्य राजीवकृष्णस्य मार्गदर्शनेन चलचित्रस्य प्रसारणम्; उत्तरप्रदेशस्य विशेषकार्यबलस्य शहीदनिरीक्षकस्य सुनीलकुमारस्य अदम्यसाहसं कर्तव्यनिष्ठा च विशेषतया प्रकाशिता

लखनऊम्, २१ अक्टोबरमासः (हि.स.)। आरक्षिस्मृतिदिवसस्य २०२६ तमस्य वर्षस्य अवसरे उत्तरप्रदेशारक्षिबलेन कर्तव्यपालनसमये स्वप्राणानाम् उत्कृष्टं बलिदानं कृतवद्भ्यः वीरारक्षिकेभ्यः श्रद्धाञ्जलिं समर्पयितुं ‘वर्दी’ इति शीर्षकेण विशेषं लघुचलच्चित्रं प्रसारितम्। आरक्षिमहानिदेशकस्य राजीवकृष्णस्य मार्गदर्शनेन निर्मितमिदं चलचित्रं शहीदारक्षिकाणां साहसं, समर्पणं, कर्तव्यनिष्ठां च प्रकाशयति। तदतिरिक्तं तेषां परिवाराणां जीवने बलिदानानन्तरम् आगतान् परिवर्तनान् भावनात्मकपीडां च संवेदनशीलतया प्रस्तुतं करोति। चलचित्रम् उत्तरप्रदेशारक्षिबलस्य सामाजिकमाध्यममञ्चेषु प्रसारितम् अस्ति।

अस्मिन् चलचित्रे कीर्तिचक्रेण सम्मानितस्य उत्तरप्रदेशस्य विशेषकार्यबलस्य वीरशहीदनिरीक्षकस्य सुनीलकुमारस्य अदम्यसाहसं परमबलिदानं च विशेषतया प्रकाशयितम् अस्ति। मुख्यमन्त्री योगी आदित्यनाथः अक्टोबर् मासस्य प्रथमदिनाङ्के स्वर्गीयस्य सुनीलकुमारस्य पत्नीं मुनेशदेवीं धनराशिं तथा वस्त्रविशेषं प्रदाय सम्मानितवान् आसीत्।

हुतात्मनां परिवाराणां मौनप्रतीक्षां भावनात्मकसंघर्षं च दर्शयति चलचित्रम्

अनेन चलचित्रेण एषः सन्देशः प्रदातुं प्रयत्नः कृतः यत् देशस्य समाजस्य च सुरक्षायै स्वप्राणान् समर्पयन्ति ये वीरजवानाः, तेषां बलिदानेन तेषां परिवारेषु गौरवभावना जायते; किन्तु स्वजनानाम् अनुपस्थित्या उत्पन्ना रिक्तता पीडा च अपि जीवनस्य अभिन्नाङ्गे भवतः। चलचित्रं हुतात्मनां परिवाराणां तां मौनप्रतीक्षां भावनात्मकसंघर्षं च चित्रयति, यं शब्दैः व्यक्तुं प्रायः कठिनं भवति।

फिल्मफेयरपुरस्कारेण सम्मानितेन प्रसिद्धेन निर्देशकलेखकाभिनेतृणा तिग्मांशुधूलियावर्येण चलचित्रस्य निर्देशनं कृतम्। अस्मिन् बॉलिवुड् अभिनेता अमितसाधः, वरिष्ठा दूरदर्शनाभिनेत्री अलका अमीन तथा नाज़िश ख़ान प्रमुखभूमिकासु अभिनयं कृतवन्तः। चलचित्रस्य ध्वनिवर्णनं पटकथां च उत्तरप्रदेशारक्षिबलस्य सामाजिकमाध्यमकेन्द्रे नियुक्तेन आरक्षिणा कपिलदिनकरेण सज्जीकृतम्। सृजनात्मकनिर्देशनं च उत्तरप्रदेशस्य आरक्षिमहानिदेशकस्य जनसम्पर्काधिकारिणा आरक्ष्यधीक्षकेण राहुलश्रीवास्तवेन कृतम्। चलचित्रस्य निर्माणं उत्तरप्रदेशस्य सूचनाजनसम्पर्कविभागस्य सहकारेण सम्पन्नम्। अस्य चित्राङ्कनं मुम्बईनगरे कृतम्।

तिग्मांशुधूलियावर्यस्य ‘पानसिंहतोमर’ चलचित्राय श्रेष्ठचलचित्रस्य पुरस्कारः प्राप्तः आसीत्

तिग्मांशुधूलियावर्यः हिन्दीचलचित्रजगति ‘हासिल’, ‘साहेब बीवी और गैंगस्टर’, ‘पानसिंहतोमर’, ‘बुलेटराजा’ तथा ‘रागदेश’ इत्यादिभिः चलचित्रैः प्रसिद्धः अस्ति। तेन निर्देशितायाः ‘पानसिंहतोमर’ इति चलचित्रकृतये षष्टितमे राष्ट्रियचलचित्रपुरस्कारे श्रेष्ठचलचित्रस्य पुरस्कारः प्राप्तः आसीत्। अस्यैव चलचित्रस्य पटकथालेखनार्थं तिग्मांशुधूलियावर्याय संजयचौहानाय च फिल्मफेयरपुरस्कारः प्रदत्तः आसीत्।

अमितसाधः ‘काई पो छे!’, ‘सुल्तान’, ‘गोल्ड’, ‘सरकार ३’ तथा ‘शकुन्तला देवी’ इत्यादिषु चलचित्रेषु, ‘ब्रीद’ तथा ‘ब्रीद: इन्टू द शैडोज़’ इत्यादिषु अन्तर्जालमाध्यमश्रृङ्खलासु च स्वकीयेन अभिनयेन प्रसिद्धः अस्ति। वरिष्ठाभिनेत्री अलका अमीन राष्ट्रीयनाट्यविद्यालयस्य पूर्वछात्रा अस्ति। सा ‘दम लगा के हईशा’ तथा ‘बधाई हो’ इत्यादिषु चलचित्रेषु स्वस्य गम्भीराभिनयेन प्रसिद्धा अस्ति।

मुठभेडे अदम्यसाहसं प्रदर्श्य निरीक्षकः सुनीलकुमारः वीरगतिं प्राप्तवान्

उल्लेखनीयं यत् २०२५ तमस्य वर्षस्य जनवरीमासस्य २० तथा २१ दिनाङ्कयोः मध्यरात्रौ शामलीनगरे मुकीमकाला-गणस्य अपराधिभिः सह जाते सङ्घर्षे उत्तरप्रदेशस्य विशेषकार्यबलस्य निरीक्षकः सुनीलकुमारः गोलिकाप्रहारेण गम्भीररूपेण आहतः अभवत्। आहतः सन्नपि सः अदम्यसाहसं कर्तव्यनिष्ठां च प्रदर्शयन् विशेषकार्यबलस्य दलस्य नेतृत्वं निरन्तरं कृतवान्। तस्य नेतृत्वे आरक्षिदलेन आत्मरक्षार्थं प्रत्युत्तरात्मककार्यवाही कृता, यस्यां एकलक्षरूप्यकाणां पुरस्कारघोषणायुक्तः अपराधी अरशदः सहिताः चत्वारः अपराधिनः मारिताः।

सङ्घर्षे प्राप्तैः गोलिकाप्रहारैः निरीक्षकः सुनीलकुमारः २०२५ तमस्य वर्षस्य जनवरीमासस्य २२ दिनाङ्के वीरगतिं प्राप्तवान्। आरक्षिस्मृतिदिवसस्य अवसरे प्रसारितस्य ‘वर्दी’ इति लघुचलच्चित्रस्य माध्यमेन उत्तरप्रदेशारक्षिबलं वीरशहीदानां त्यागस्य, समर्पणस्य, कर्तव्यनिष्ठायाश्च गाथां जनसामान्यं प्रति प्रापयितुं तथा च आरक्षिबलस्य जवानान् राष्ट्रसेवायै प्रेरयितुं प्रयत्नं कृतवत् अस्ति।

Hindusthan Samachar / Dheeraj Maithani