आकाशवाणी-वाराणसीतः नाटी-इमली-स्थलस्य ऐतिहासिकस्य भरतमिलापस्य सजीवप्रसारणं भविष्यति
न्यूज् ऑन एआईआर-अनुप्रयोगेन, वेव् ओटीटी-माध्यमेन, डीटीएच-माध्यमेन च देशविदेशस्थाः श्रोतारः अपि आयोजनेन सह सम्बद्धाः भवितुं शक्नुवन्ति। वाराणसी, २१ अक्टोबरमासः (हि.स.)। धर्मस्य, श्रद्धायाः, काश्याः समृद्धायाः सांस्कृतिकपरम्परायाश्च प्रतीकस्य नाटी-इ
नाटी इमली भरत मिलाप


न्यूज् ऑन एआईआर-अनुप्रयोगेन, वेव् ओटीटी-माध्यमेन, डीटीएच-माध्यमेन च देशविदेशस्थाः श्रोतारः अपि आयोजनेन सह सम्बद्धाः भवितुं शक्नुवन्ति।

वाराणसी, २१ अक्टोबरमासः (हि.स.)। धर्मस्य, श्रद्धायाः, काश्याः समृद्धायाः सांस्कृतिकपरम्परायाश्च प्रतीकस्य नाटी-इमली-स्थलस्य विश्वप्रसिद्धस्य भरतमिलापस्य सजीवप्रसारणम् आकाश-वाणी-वाराणसीतः क्रियते। चित्रकूट-रामलीला-समित्या आयोजितम् एतत् ऐतिहासिकं लीलापर्व काश्याः प्रमुखेषु लक्षमेलकेषु अन्यतमम् अस्ति। गुरुवासरे गोधूलिवेलायां सम्पन्नस्य अस्य आयोजनस्य श्रवणं दर्शनं च देशविदेशस्थाः श्रोतारः न्यूज ऑन एआईआर-अनुप्रयोगेन, वेव ओटीटी-माध्यमेन, डीटीएच-माध्यमेन च कर्तुं शक्नुवन्ति।

आकाशवाणी-वाराणसीकेन्द्रस्य सहायक-निदेशकः (कार्यक्रमप्रमुखः) प्रफुल्ल-कुमारसिन्हा अवदत् यत् काश्याः ऐतिहासिकायाः, धार्मिकायाः, सांस्कृति-कायाश्च धरोहरायाः व्यापकश्रोतृसमुदायं प्रति प्रसारणस्य उद्देश्येन अस्य विशेषप्रसारणस्य व्यवस्था कृता अस्ति। भरतमिलापस्य सजीवप्रसारणम् अपराह्णे ३:४५ वादनात् मध्यमतरङ्गस्य १२४२ किलोहर्ट्ज-आवृत्तौ विविधभारती-एफएम्-१००.६ मेगाहर्ट्ज्-आवृत्तौ च भविष्यति।

ते अवदन् यत् नाटी-इमली-स्थलस्य भरतमिलापः वाराणस्याः प्रमुखेषु धार्मिकेषु सांस्कृतिकेषु च आयोजनेषु विशिष्टं स्थानं धारयति। भगवान् श्रीरामस्य तस्य अनुजस्य भरतस्य च भावपूर्णमिलनम् आधारीकृत्य आयोज्यमाना एषा लीला काश्याः प्राचीनरामलीलापरम्परायाः, जनश्रद्धायाः, सांस्कृतिकधरोहरायाश्च सजीवं प्रतीकम् अस्ति। आकाशवाण्याः सजीवप्रसारणेन आयोजनस्थलात् दूरे स्थिताः श्रद्धालवः श्रोतारश्च अस्याः ऐतिहासिकपरम्परायाः सह सम्बद्धाः भवितुं शक्नुवन्ति।

विशेषज्ञाणां विवरणेन ऐतिहासिक-धार्मिक-प्रसङ्गानां परिचयः प्राप्स्यते

अस्मिन् विशेषप्रसारणे सञ्चारमाध्यम-विशेषज्ञः प्रो. राममोहनपाठकः आकाश-वाण्याः वरिष्ठः उद्घोषकः अरुणकुमार-पाण्डेयः च विवरणं प्रस्तोष्यतः। प्रो. पाठकः भरतमिलापस्य ऐतिहासिकपृष्ठभूमिं, धार्मिकमहत्त्वं, सांस्कृतिकपरम्पराः, श्रीरामभरतयो-र्मिलनस्य भावनात्मकं पक्षं च प्रकाशयिष्यति। अपरतः वरिष्ठः उद्घोषकः अरुणकुमारपाण्डेयः आयो-जनस्य प्रमुखान् प्रसङ्गान्, तेषां विशेषताः, सम्बद्धानि च विविधानि तथ्यांशानि क्रमबद्धरूपेण श्रोतृभ्यः प्रस्तोष्यति।

आयोजनस्थलात् आशुतोषकुमारः स्वस्य प्रत्यक्षविवरणमाध्यमेन तत्रत्यं वातावरणं, श्रद्धालूनां उपस्थितिम्, सज्जताः, लीलायाः समये घटमानानि प्रमुखदृश्यानि च प्रत्यक्षवृत्तान्तस्वरूपेण प्रस्तोष्यति। अनेन रेडियोश्रोतारः अपि आयोजनस्य सजीवताम् उत्सवपूर्णं वातावरणं च अनुभ्रोतुं शक्नुवन्ति।

सांस्कृतिकधरोहरं जनं जनं प्रति प्रापयितुं प्रयासः

प्रफुल्लकुमारसिन्हा अवदत् यत् आकाशवाणी-वाराणसीकेन्द्रं क्षेत्रस्य सांस्कृतिकायाः, साहित्यिकायाः, धार्मिका-याः, लोककलात्मकायाश्च परम्परायाः संरक्षणाय तस्याः व्यापक-प्रचारप्रसाराय च निरन्तरं प्रयतते। नाटी-इमली-स्थलस्य भरतमिलापस्य सजीवप्रसारणम् अस्य प्रयासस्य महत्त्वपूर्णः भागः अस्ति।

ते अवदन् यत् लोकश्रद्धया सम्बद्धानाम् एतादृशानाम् आयोजनानां रेडियोमाध्यमेन प्रसारणेन न केवलं सांस्कृतिकपरम्पराः नवपीढीं प्रति प्रापयितुं साहाय्यं भवति, अपितु देशस्य विभिन्नेषु प्रदेशेषु विदेशेषु च निवसतां जनानाम् अपि काश्याः गौरवशालिन्या परम्परया सह सम्बद्धतायाः अवसरः प्राप्यते।

प्रफुल्लकुमारसिन्हा श्रोतॄन् अस्य विशेषस्य सजीवप्रसारणस्य श्रवणाय, काश्याः ऐतिहासिकायाः सांस्कृतिकायाश्च परम्परायाः अस्य अद्वितीयस्य आयोजनस्य सहभागीभवनाय च आह्वयत्।

Hindusthan Samachar / Divya Ranjan