दूरदर्शन-वाहिन्यः आतङ्कवाद-विरोधि-अभियानानां साक्षात्-प्रसारणात् विरमन्तु, राष्ट्रविरोधि-सामग्रीं च मा प्रदर्शयन्तु - सर्वकारः
नवदेहली, २१ अक्टूबरमासः (हि.स.)। सूचना-तथा-प्रसारण-मन्त्रालयेन वैयक्तिक-उपग्रह-दूरदर्शन-वाहिनीनां कृते बुधवासरे एका दृढा परामर्शिका (एडवाइजरी) प्रसारिता, यस्याम् उक्तं यत् ताः आतङ्कवाद-विरोधि-अभियानानां साक्षात्-प्रसारणात् (लाइव-कवरेज) विरमन्तु, उत
सूचना एवं प्रसारण मंत्रालय


नवदेहली, २१ अक्टूबरमासः (हि.स.)। सूचना-तथा-प्रसारण-मन्त्रालयेन वैयक्तिक-उपग्रह-दूरदर्शन-वाहिनीनां कृते बुधवासरे एका दृढा परामर्शिका (एडवाइजरी) प्रसारिता, यस्याम् उक्तं यत् ताः आतङ्कवाद-विरोधि-अभियानानां साक्षात्-प्रसारणात् (लाइव-कवरेज) विरमन्तु, उत्तेजक-चर्चाः राष्ट्रविरोधि-सामग्रीं च मा प्रदर्शयन्तु, तथा च कृत्रिम-बुद्धिमत्तायाः (एआई) उपयोगे सतर्कतां पालयन्तु।

​मन्त्रालयेन परामर्शिकायां सर्वाः उपग्रह-दूरदर्शन-वाहिन्यः कार्यक्रम-संहितायाः दृढतया अनुपालनं कर्तुम् आदिष्टाः। मन्त्रालयेन कथितं यत् तस्य अन्तर-विभागीय-समित्या दृष्टं यत् वाहिनीषु प्रसारितानि वार्ता-दृश्यानि च संहितायाः अनुकलानि न सन्ति, एकविधाः दृश्याः च वारं वारं प्रदर्श्यन्ते।

​आदेशानुसारम् आतङ्कवाद-विरोधि-अभियानानां साक्षात्-प्रसारणं सर्वथा प्रतिषिद्धं स्थास्यति। अभियानस्य (ऑपरेशन) समाप्तिमभिव्याप्य केवलम् अधिकृत-अधिकारिणः विवरणमेव (ब्रीफिंग्) प्रसारयितुं शक्यिष्यते। पुरातन-दृश्येषु समय-मुद्रायाः (टाइम-स्टैम्प) अङ्कनम् अनिवार्यं भविष्यति। हिंस्र-व्याकुलकारि-दृश्यानि अधिकृत्य अपि वाहिन्यः सचेतनाः भवितुं कथिताः। एतादृशानि दृश्यानि आवर्तनेन (लूप-मध्ये) पुनः पुनः न प्रदर्शयितुम् आवश्यकतायां सत्यां अस्पष्टीकरणस्य (ब्लर्) आवरणस्य वा (मास्किंग) उपयोगं कर्तुं निर्देशाः दत्ताः। अपराध-सम्बद्धासु वार्तासु सनसनीखेज-वार्ताप्रसारणात् विरन्तुं प्रमाणीकृत-तथ्याधारेणैव वार्ता-सङ्कलनं कर्तुं कथितम्। दूरदर्शन-वाहिनीभ्यः महिलाभिः बालकैश्च सम्बद्धेषु अपराधेषु विशेष-सतर्कतां ग्रहीतुं निर्देशाः प्रदत्ताः। प्राकृतिक-विपत्सु दुर्घटनासु च वार्ता-प्रसारणे समय-मुद्रायाः उपयोगः अनिवार्यः भविष्यति, येन दर्शकेषु त्रासः (भयम्) न प्रसरेत्।

​मन्त्रालयेन सर्वाः वाहिन्यः केवलं ‘भारतीय-सर्वेक्षण-विभागेन’ प्रकाशितस्य भारतस्य प्रामाणिक-मानचित्रस्यैव उपयोगं कर्तुम् आदिष्टाः। साक्षात्-विमर्शम् (लाइव डिबेट्) अधिकृत्य अपि कठोराः निर्देशाः प्रसारिताः। साम्प्रदायिक-सौहार्द-नाशक-टिप्पणीनां प्रतिषेधाय, परिचर्चा-सदस्यानां (पैनलिस्ट्) सतर्कतया चयनाय, आपत्तिजनक-टिप्पणीनां मूकतायै (म्यूट् कर्तुम्) अथवा पूर्वचेतावनी-प्रदर्शनाय (डिस्क्लेमर चालयितुं) च कथितम्। एतेन सह लैङ्गिक-अपराध-पीडितानां परिचयं प्रकटीकर्तुं पूर्णतया प्रतिबन्धः स्थास्यति। पीडितेन सम्बद्धा कापि सूचना, छायाचित्रं पारिवारिक-विवरणं वा न प्रदर्शयितुं शक्यिष्यते।

​मन्त्रालयेन कृत्रिम-बुद्धिमत्तायाः तथा च उत्पादि-कृत्रिम-बुद्धिमत्ता-उपकरणानां (जेनरेटिव एआई टूल्स) उपयोगेऽपि सतर्कतां ग्रहीतुं परामर्शं दत्त्वा उक्तं यत् वार्तायाः यथार्थतया सह किमपि समझौता (त्यागः) न भवेत्। कार्यक्रम-संहितायाः उल्लङ्घने कृते सति 'केबल-दूरदर्शन-जाल-अधिनियमः-१९९५' इत्यस्य अनुसारेण दण्ड-विधानं विधास्यते।

_______________

Hindusthan Samachar / Divya Ranjan