Enter your Email Address to subscribe to our newsletters

लखनऊ, २२ अक्टोबरमासः (हि.स.)। उत्तरप्रदेशे २०२७ तमे वर्षे भाविनः विधानसभानिर्वाचनस्य दृष्ट्या राष्ट्रिय-स्वयंसेवकसङ्घेन प्रदेशे स्वकीयाः गतिविधयः वर्धिताः सन्ति। अस्मिन्नेव सन्दर्भे लखनऊनगरस्य आशियानास्थिते चान्सलर-क्लबे सङ्घस्य एका सभा आयोज्यते। अस्यां भागं ग्रहीतुं राष्ट्रियस्वयंसेवकसङ्घस्य सहसर-कार्यवाहौ अरुणकुमारः अतुललिमये च गुरुवासरे लखनऊम् आगतवन्तौ।
सहसरकार्यवाहद्वयस्य उपस्थितौ आयोज्य-माना इयं सभा उत्तरप्रदेशस्य विधान-सभानिर्वाचनस्य दृष्ट्या अत्यन्तं महत्त्वपूर्णा मन्यते।
शताब्दीवर्षस्य कार्यक्रमाणां समाप्त्य-नन्तरं सङ्घस्य सम्पूर्णं ध्यानम् उत्तरप्रदेशे केन्द्रितम् अस्ति। अस्य अन्तर्गतं समाजस्य मध्ये गन्तुं सङ्घेन विविधकार्यक्रमाणां योजना क्रियते।
अस्मिन् सङ्घस्य अवध-प्रान्तस्य कानपुर-प्रान्तस्य च प्रान्तीय-पदाधिकारिणः तथा सङ्घस्य समविचारिणां सङ्गठनानां पदाधिकारिणः आमन्त्रिताः सन्ति। एतदतिरिक्तम्, अस्यां बैठके सर्वेषां षण्णां प्रान्तानां प्रान्तप्रचारकाः, पूर्वी-उत्तरप्रदेशस्य पश्चिमी-उत्तरप्रदेशस्य च क्षेत्रप्रचारकौ तथा उभयोः क्षेत्रयोः विविधसङ्गठनानां क्षेत्रीय-पदाधिकारिणः अपि भागं गृह्णन्ति।
सरकार्यवाहः दत्तात्रेयहोसबाले अत्रत्यां चतुर्दिवसीययात्रायां किञ्चित्कालपूर्वं लखनऊम् आगतवान् आसीत्। तस्मिन् समये तेन क्षेत्रस्य मुख्यसमित्या सह सभा कृता आसीत्। एतदतिरिक्तं सङ्घस्य क्षेत्रीयपदाधिकारिभिः वरिष्ठप्रचारकैश्च सह अपि सभा कृता आसीत्। सः कतिपयैः पदाधिकारिभिः सह व्यक्तिगतवार्तालापम् अपि अकरोत्। सरकार्यवाहेन प्रदत्तानां निर्देशानाम् अनुपालनस्य सन्दर्भे अपि अस्याः सभाया: महत्त्वपूर्णा मन्यते।
सूत्राणाम् अनुसारम्, अग्रिमे विधानसभा-निर्वाचने सङ्घसम्बद्धानां सर्वेषां विविध-सङ्गठनानां पृथक् सभा: अपि भविष्यन्ति। एतासु सभासु विविधसङ्गठनानां पदाधिकारिणः कार्यकर्तारश्च निर्वाचन-सम्बद्धकार्येषु नियोजिताः भविष्यन्ति। एतदर्थं प्रान्तस्तरे वक्तृकार्यशालाः अपि आयोजयिष्यन्ते। अस्मात् अतिरिक्तं लघुस्तरीयसभा: अपि भविष्यन्ति। एतासु सभासु शतप्रतिशतं मतदानं सुनिश्चितं कर्तुं जनाः जागरूकाः करिष्यन्ते।
Hindusthan Samachar / Divya Ranjan