बिहारविधानसभायाः अध्यक्षः डॉ. प्रेमकुमारः राममन्दिरे रामललायाः दर्शनं पूजनं च कृतवान्।
अयोध्या, 22 अक्टूबरमासः (हि.स.)।बिहारविधानसभायाः अध्यक्षः डॉ. प्रेमकुमारः गुरुवासरे अयोध्यां प्राप्तवान् तथा च श्रीरामजन्मभूमिमन्दिरे रामललायाः दर्शनपूजनं कृतवान्। डॉ. प्रेमकुमारः सर्किट् हाउसे इति विश्रामगृहे माध्यमप्रतिनिधिभिः सह सम्भाषणकाले अवदत
बिहार विधानसभा के अध्यक्ष डॉ. प्रेम कुमार


अयोध्या, 22 अक्टूबरमासः (हि.स.)।बिहारविधानसभायाः अध्यक्षः डॉ. प्रेमकुमारः गुरुवासरे अयोध्यां प्राप्तवान् तथा च श्रीरामजन्मभूमिमन्दिरे रामललायाः दर्शनपूजनं कृतवान्। डॉ. प्रेमकुमारः सर्किट् हाउसे इति विश्रामगृहे माध्यमप्रतिनिधिभिः सह सम्भाषणकाले अवदत् यत् राममन्दिरनिर्माणाय दीर्घः सङ्घर्षः कर्तव्यः अभवत्। अस्मिन् सङ्घर्षे कारागारं गन्तव्यम् अभवत् तथा च दण्डप्रहाराः अपि सोढव्याः अभवन्।

तेन उक्तं यत् सर्वोच्चन्यायालयस्य आदेशानन्तरम् अयोध्यायां भव्यं राममन्दिरं निर्मितं सम्पन्नं च जातम्। डॉ. प्रेमकुमारः सूचितवान् यत् बिहारराज्यात् बहुसंख्याकाः कार्यकर्तारः श्रद्धालवश्च भगवान् श्रीरामस्य दर्शनाय अयोध्याम् आगच्छन्ति। श्रद्धालूनां प्रसन्नतां दृष्ट्वा सः हर्षं व्यक्तवान् तथा च अवदत् यत् जनाः रामललायाः दर्शनं कृत्वा अत्यन्तं प्रसन्नाः सन्ति।

उत्तरप्रदेशस्य मुख्यमन्त्रिणः योगी आदित्यनाथस्य प्रशंसां कुर्वन् सः अवदत् यत् तस्य लोकप्रियता केवलम् उत्तरप्रदेशे एव न, अपितु सम्पूर्णे देशे अस्ति। तेन उक्तं यत् योगी आदित्यनाथस्य नेतृत्वे उत्तरप्रदेशे विधेः शासनं स्थापितम् अस्ति। बिहारराज्येन सह तुलनां कुर्वन् सः अवदत् यत् उत्तरप्रदेशे अपराधिभ्यः विरुद्धं तत्कालं कठोरकार्यवाही क्रियते तथा च रामराज्यसदृशं वातावरणम् अस्ति।

डॉ. प्रेमकुमारः सूचितवान् यत् सीतामढीनगरे प्रायः ८५० कोटिरूप्यकाणां व्ययेन मातुः जानक्याः भव्यस्य मन्दिरस्य निर्माणकार्यं प्रारब्धम् अस्ति। एतत् मन्दिरं द्वाभ्यां वर्षाभ्यां निर्मितं सम्पन्नं च भविष्यति इति अपेक्षा अस्ति।

Hindusthan Samachar / Dheeraj Maithani