एनसीसी युवभ्यः राष्ट्रस्य उत्तरदायिनः, अनुशासितान् जागरूकान् च नागरिकान् भवितुं प्रेरणां ददाति : कविन्द्रगुप्तः
मंडी, 22 अक्टूबरमासः (हि.स.)। राज्यपालः कविन्द्रगुप्तः मण्डीनगरे स्थितस्य द्वितीयहिमाचलप्रदेशीयस्य एनसीसीदलस्य भ्रमणम् अकरोत्। तेन तस्मिन् दलमध्ये स्थापितस्य सर्वधर्मस्थलस्य विधिवत् उद्घाटनं कृतम् तथा उत्कृष्टकार्याणां कृते एनसीसीदलाय प्रशस्तिपत
एनसीसी बटालियन के दौरे के दौरान राज्यपाल।


मंडी, 22 अक्टूबरमासः (हि.स.)।

राज्यपालः कविन्द्रगुप्तः मण्डीनगरे स्थितस्य द्वितीयहिमाचलप्रदेशीयस्य एनसीसीदलस्य भ्रमणम् अकरोत्। तेन तस्मिन् दलमध्ये स्थापितस्य सर्वधर्मस्थलस्य विधिवत् उद्घाटनं कृतम् तथा उत्कृष्टकार्याणां कृते एनसीसीदलाय प्रशस्तिपत्रमपि प्रदत्तम्। अस्मिन् अवसरे राज्यपालपत्नी बिन्दुगुप्ता अपि विशेषरूपेण उपस्थिताऽभवत्।

राज्यपालः उक्तवान् यत् राष्ट्रियकैडेटकोर इत्यस्य एनसीसी इति सङ्घटनस्य स्थापनायाः उद्देशः युवासु अनुशासनस्य, चरित्रस्य, नेतृत्वस्य, राष्ट्रियैकतायाः तथा निःस्वार्थसेवायाः भावनायाः विकासः अस्ति। रक्षामन्त्रालयस्य अधीनं कार्यरतः अयं सङ्घटनः देशस्य लक्षशः युवभ्यः राष्ट्रस्य उत्तरदायिनः, अनुशासितान् जागरूकान् च नागरिकान् भवितुं प्रेरणां ददाति।

कविन्द्रगुप्तः उक्तवान् यत् एनसीसी इत्यस्य आदर्शवाक्यम् एकता और अनुशासनम् इति अस्ति। एतत् केवलं पदद्वयं न, अपितु जीवनस्य सम्पूर्णं दर्शनम् अस्ति। एकता अस्मान् विविधतानां सम्मानं कर्तुं शिक्षयति, यदा तु अनुशासनम् अस्मान् स्वकर्तव्येषु निष्ठावन्तः भवितुं प्रेरयति। यदा एते उभे गुणौ कस्यचित् युवानः व्यक्तित्वे समाविष्टौ भवतः, तदा सः न केवलं स्वजीवने सफलतां प्राप्नोति, अपितु समाजस्य राष्ट्रस्य च प्रगतौ महत्त्वपूर्णं योगदानमपि ददाति।

---------------

Hindusthan Samachar / Dheeraj Maithani