Enter your Email Address to subscribe to our newsletters

मंडी, 22 अक्टूबरमासः (हि.स.)।
उद्यान, राजस्व, जनजातीयविकास एवं जनशिकायतनिवारणमन्त्री जगतसिंहनेगी अद्य गोहर उपमण्डलस्य बाढूस्थाने प्रायः एककोटि चतुःपञ्चाशल्लक्षरूप्यकाणां व्ययेन निर्मितानां विविधविकासयोजनानाम् उद्घाटनानि अकरोत्।
तेन गोहरस्य बाढूस्थे उद्यानविस्तारकेन्द्रे प्रायः द्विपञ्चाशल्लक्षरूप्यकाणां व्ययेन नवनिर्मितस्य उद्यानप्रसाराधिकारिकार्यालयसहआवासीयभवनस्य, फलसन्ततिप्रदर्शनवाटिकायाः मधानस्थाने षट्षष्टिलक्षरूप्यकाणां व्ययेन नवनिर्मितयोः उद्यानप्रसाराधिकारिकार्यालयसहआवासीयभवनयोः तथा प्रायः षट्त्रिंशल्लक्षरूप्यकाणां व्ययेन निर्मितस्य सुन्दरनगरस्थस्य पादपस्वास्थ्यकेन्द्रस्य च उद्घाटनं कृतम्।
बाढूस्थाने जनसभां सम्बोधयन् उद्यानमन्त्री उक्तवान् यत् प्रदेशसर्वकारस्य एचपी शिवा परियोजना प्रदेशे उद्यानकृषिक्षेत्रस्य संवर्धने कृषकाणाम् आयवर्धने च महत्त्वपूर्णां भूमिकां निर्वहति। परियोजनायाः अन्तर्गतं क्षेत्रस्य जलवायोः भौगोलिकपरिस्थितीनां च अनुरूपाणि उच्चगुणवत्तायुक्तानि फलवृक्षाणां पादपानि रोप्यन्ते। आम्रस्य, अमरूदस्य, लीचीफलस्य, नारङ्गस्य तथा अन्येषां उपोष्णकटिबन्धीयफलानां कृषिः प्रोत्साह्यते। उद्यानकृषकान् प्रोत्साहितुं उद्यानकृषिक्रियाकलापानां च संवर्धनार्थं सर्वकारेण सञ्चालितानां विविधयोजनानाम् अन्तर्गतं विगतेषु त्रिषु वर्षेषु प्रायः एककोटि नवतिलक्ष षट्सप्ततिसहस्ररूप्यकाणां अनुदानराशिः व्ययिता। अनेन गोहरखण्डस्य ४९७ उद्यानकृषकाः लाभान्विताः अभवन्। सर्वकारस्य प्रोत्साहनेन कृषकाणां परिश्रमेण च क्षेत्रे फलोत्पादनं प्रायः चतुर्सहस्रमीट्रिकटनपरिमाणं प्राप्तम्।
गोहरखण्डे एचपी शिवा परियोजनायाः अन्तर्गतं प्रायः २४.२ हेक्टेयरक्षेत्रे आलूबुखारस्य तथा जापानीफलस्य चत्वारः समूहाः विकसिताः सन्ति। एतेषु मंझोगधनियुत, बागाचलौग, मंझागनचूड़ारा तथा लटोगली इति समूहाः अन्तर्भवन्ति। एतेषां समूहानां माध्यमेन कुलम् १४६ लाभार्थिनः लाभान्विताः अभवन्।
एतेषु समूहेषु पादपरोपणस्य, भूमिविकासस्य, सौरवेष्टनस्य तथा बिन्दुसिञ्चनस्य इत्यादीनां विविधक्रियाकलापानां कृते ३.४६ कोटिरूप्यकाणि व्ययितानि।
---------------
Hindusthan Samachar / Dheeraj Maithani