Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २२ अक्टोबरमासः (हि.स.)। तमिलनाडोः उत्तरभारतस्य च मध्ये सांस्कृतिक-शैक्षणिक-आध्यात्मिक-सम्बन्धान् सुदृढान् कर्तुम् उद्दिश्य पञ्चमस्य काशीतमिलसङ्गम-महोत्सवस्य आयोजनं क्रियते। अस्य कार्यक्रमस्य प्रमुखम् उद्देश्यम् अस्ति यत् तमिलभाषायाः साहित्यस्य च समृद्धपरम्परां देशस्य युवभ्यः विद्यार्थिभ्यश्च परिचाययेत् तथा भारतस्य सहभागं सांस्कृतिकपरम्परां प्रति तान् अवगमयेत्।
काशीतमिलसङ्गममहोत्सवस्य पञ्चम-संस्करणस्य आयोजनं २०२६ तमस्य वर्षस्य नवम्बरमासस्य २८ दिनाङ्कतः दिसम्बरमासस्य १२ दिनाङ्कपर्यन्तं भविष्यति। अस्मिन् वर्षे कार्यक्रमस्य विषयः “तिरुक्कुरल् पठेम, तिरुक्कुरलम् अभ्यासं कुर्मः” इति निर्धारितः अस्ति। अस्य उद्देश्यं प्राचीनतमिलग्रन्थे तिरुक्कुरले निहितान् नैतिकान् मानवीयान् च मूल्यान् देशस्य सर्वेभ्यः युवभ्यः विद्यार्थिभ्यश्च प्रापयितुम् अस्ति।
अस्मिन् वर्षे सङ्गममहोत्सवे तमिल-भाषायाः प्राचीनस्य प्रसिद्धस्य च ग्रन्थस्य तिरुक्कुरलस्य नैतिकजीवन-सम्बद्ध-शिक्षासु विशेषं ध्यानं दीयते। शैक्षणिकगतिविधीनां, विभिन्नासु भाषासु उपलब्धानाम् अध्ययनसामग्रीणां तथा जनसम्पर्ककार्यक्रमाणां माध्यमेन युवानः अस्मिन् ग्रन्थे प्रतिपादितानि मूल्यानि अवगन्तुं स्वस्य दैनिकजीवने च तानि आचरितुं प्रेरयिष्यन्ते।
कार्यक्रमान्तर्गतं तमिलनाडुतः प्रायः १४०० प्रतिभागिनः भागं ग्रहीष्यन्ति। ते प्रायः द्विशतप्रतिभागिनां सप्तसु समूहेषु विभक्ताः भविष्यन्ति। प्रत्येकः समूहः अष्टदिवसीय-यात्रां करिष्यति। अस्यां यात्रायां चत्वारः दिवसाः यात्रायै तथा चत्वारः दिवसाः विभिन्नस्थलानां भ्रमणाय निर्धारित-कार्यक्रमेषु च सहभागितायै विनियोजिताः भविष्यन्ति।
अस्यां यात्रायां प्रतिभागिनः वाराणसीं, प्रयागराजम्, अयोध्यां च गमिष्यन्ति। एतेषु स्थलेषु तेषां कृते सांस्कृतिकाः, शैक्षणिकाः, आध्यात्मिकाः तथा विविधविषयसम्बद्धाः कार्यक्रमाः आयोजयिष्यन्ते।
पञ्चमे काशीतमिलसङ्गममहोत्सवे यूनां सहभागितायै विशेषं महत्त्वं प्रदत्तम् अस्ति। अस्य माध्यमेन नूतनवंश: भारतस्य प्राचीनज्ञानपरम्पराः, तमिलसाहित्यं तथा सांस्कृतिकपरम्परां च निकटतः अवगन्तुं अवसरं प्राप्स्यति।
अस्य कार्यक्रमस्य उद्देश्यम् केवलं सांस्कृतिकविनिमयपर्यन्तं सीमितं नास्ति, अपि तु विद्यार्थिनः युवानश्च एताभिः परम्पराभिः प्राप्ताः शिक्षाः स्वकीयेषु शैक्षणिकेषु, व्यावसायिकेषु, सामाजिकेषु च जीवनेषु आचरितुं प्रेरयितुम् अपि अस्ति।
काशीतमिलसङ्गममहोत्सवस्य माध्यमेन तमिलनाडोः उत्तरभारतस्य च मध्ये सांस्कृतिकसम्बन्धान् वर्धयितुं तथा देशस्य विविधभाषाणां, परम्पराणां, ज्ञानपद्धतिनां च मध्ये संवादं सुदृढं कर्तुं प्रयासः क्रियते।
अपरपक्षे केन्द्रीयशिक्षामन्त्री श्रीप्रल्हाद-जोशी काशीतमिलसङ्गममहोत्सवस्य ५.० संस्करणाय पञ्जीकरणपटलस्य उद्घाटनम् अकरोत्। अस्य आयोजनस्य माध्यमेन तमिलनाडोः काश्याः च मध्ये सांस्कृतिक-शैक्षणिक-ऐतिहासिक-सम्बन्धान् अधिकं सुदृढान् कर्तुं तथा भारतीयभाषाणां सहभागितायाः सांस्कृ-तिकपरम्पराश्च प्रोत्साहनं दातुं प्रयासः क्रियते।
Hindusthan Samachar / Divya Ranjan