राज्यपालः रमेन् डेका राष्ट्रपतये द्रौपदीमुर्मवे पर्वतीयमैना पक्षिणः प्रतिकृतिं समर्पितवान्।
राज्यस्य प्रथममहिला रानी डेका काकोट्या छत्तीसगढस्य प्रसिद्धां कोसावस्त्रनिर्मितां शाटिकां समर्पितवती। रायपुरम्, २२ अक्टोबरमासः (हि.स.)। राष्ट्रपतये द्रौपदीमुर्मवे लोकभवने राज्यपालः रमेन् डेका गुरुवासरे सम्मानस्वरूपं छत्तीसगढराज्यस्य राजकीयपक्षिण
*


*


*


- राज्यस्य प्रथममहिला रानी डेका काकोट्या छत्तीसगढस्य प्रसिद्धां कोसावस्त्रनिर्मितां शाटिकां समर्पितवती।

रायपुरम्, २२ अक्टोबरमासः (हि.स.)। राष्ट्रपतये द्रौपदीमुर्मवे लोकभवने राज्यपालः रमेन् डेका गुरुवासरे सम्मानस्वरूपं छत्तीसगढराज्यस्य राजकीयपक्षिणः पर्वतीयमैनायाः प्रतिकृतिं समर्पितवान्।

अस्मिन्नवसरे राज्यस्य प्रथममहिला रानी डेका काकोट्या राष्ट्रपतये छत्तीसगढस्य प्रसिद्धां कोसाशाटिकां समर्पितवती।

राष्ट्रपतिः श्रीमती मुर्मुः अपि स्मृतिचिह्नरूपेण राज्यपालाय श्रीडेका इत्यस्मै कोणार्कचक्रस्य प्रतिकृतिं विशिष्टशैल्याः चित्रकलाकृतिं च समर्पितवती। स्मृतिचिह्नानां माध्यमेन छत्तीसगढस्य विशिष्टसांस्कृतिकपरिचयस्य पारम्परिककलानां च सम्माननं कृतम्। पर्वतीयमैना राज्यस्य प्राकृतिकपरिचयस्य प्रतीकम् अस्ति, कोसाशाटिका तु छत्तीसगढस्य समृद्धायाः वयनपरम्परायाः हस्तकलायाश्च प्रतिनिधित्वं करोति।

Hindusthan Samachar / Dheeraj Maithani