Enter your Email Address to subscribe to our newsletters

लखनऊ, 22 अक्टूबरमासः (हि.स.)।
राष्ट्रियलोकदलस्य राष्ट्रियाध्यक्षस्य केन्द्रीयमन्त्रिणः च जयन्तचौधरिणो निर्देशानुसारं उत्तरप्रदेशसर्वकारे मन्त्रिमण्डलीयमन्त्रिणोऽनिलकुमारस्य नेतृत्वे दलस्य सांसदानां विधानसभासदस्यानां च प्रतिनिधिमण्डलं मुख्यमन्त्रिणा योगी आदित्यनाथेन सह मिलितवान्। प्रतिनिधिमण्डलेन इक्षुकृषकाणां हितानि दृष्ट्वा प्रदेशे इक्षुमूल्यस्य वृद्धेः आग्रहः कृतः।
मेलनवार्तायाः समये रालोदप्रतिनिधिमण्डलेन इक्षुकृषकाणाम् आर्थिकस्थितेः तेषाम् अपेक्षाणां च दृष्ट्या इक्षुमूल्यवृद्धेः आवश्यकतायाः विषये बलं दत्तम्। दलस्य पक्षतः कृषकेभ्यः तेषाम् उत्पादस्य उचिततरं मूल्यं प्रदातुं तेषां हितसम्बद्धः महत्त्वपूर्णः विषयः इति प्रतिपादितम्।
रालोददलस्य अनुसारं मुख्यमन्त्री योगी आदित्यनाथः इक्षुकृषकाणां हितानि दृष्ट्वा इक्षुमूल्यवृद्धेः आग्रहस्य विषये सकारात्मकम् आश्वासनं दत्तवान्। प्रतिनिधिमण्डलेन आशा व्यक्ता यत् सर्वकारः कृषकाणां हिताय उचितं निर्णयं स्वीकरिष्यति।
Hindusthan Samachar / Dheeraj Maithani