ऋषिकेश-कर्णप्रयागरेलमार्गः अभियान्त्रिकीक्षेत्रे महती उपलब्धिः - रेलमन्त्री
नवदिल्ली, २२ अक्टोबरमासः (हि.स.)। केन्द्रीयरेलमन्त्री अश्विनीवैष्णवः ऋषि-केश-कर्णप्रयागरेलमार्गं हिमालयक्षेत्रे अभियान्त्रिकीक्षेत्रस्य महतीम् उपलब्धिं वर्णितवान्। १२५ किलोमीटर दीर्घायाम् अस्यां परियोजनायां १२ रेलस्थानकानि सन्ति तथा च अस्याः प्रायः
रेल मंत्री रेल लाइन की जानकारी देतेहुए


नवदिल्ली, २२ अक्टोबरमासः (हि.स.)। केन्द्रीयरेलमन्त्री अश्विनीवैष्णवः ऋषि-केश-कर्णप्रयागरेलमार्गं हिमालयक्षेत्रे अभियान्त्रिकीक्षेत्रस्य महतीम् उपलब्धिं वर्णितवान्। १२५ किलोमीटर दीर्घायाम् अस्यां परियोजनायां १२ रेलस्थानकानि सन्ति तथा च अस्याः प्रायः ८३ प्रतिशतं भागः सुरङ्गैः गच्छति। दुर्गमभौगोलिक-परिस्थितीनां कारणात् एषा भारतस्य जटिलतमासु रेलपरियोजनासु अन्यतमा अस्ति।

वैष्णवः अवदत् यत् अनेन चतुर्धाम-तीर्थस्थलेषु सम्पर्कसुविधा सुधरिष्यते, पर्यटनं प्रोत्साहनं प्राप्स्यति तथा स्थानीयार्थव्यवस्था सुदृढा भविष्यति। अस्याः परियोजनायाः कार्यं २०२८-२०२९ तमवर्षपर्यन्तं पूर्णं कर्तुं लक्ष्यम् अस्ति।

रेलमन्त्री परियोजनायाः विषये विस्तृतां सूचनां प्रदातुम् एकं दृश्यश्रव्यखण्डं सामाजिकमाध्यमे ‘एक्स’ इत्यत्र साझा कृतवान्। स्वकीयायां पोस्ट्-मध्ये सः उक्तवान् यत् रेलमार्गस्य १०४ किलोमीटर भागः केवलं सुरङ्गेषु भविष्यति। सम्पूर्णपरियोजनायां १६ सुरङ्गाः १९ बृहन्तः सेतवश्च निर्मीयन्ते।

तेन उक्तं यत् अस्मिन् मार्गे योगनगरीऋषिकेशः, शिवपुरी, व्यासी, देवप्रयागः, श्रीनगरम्, गौचरम्, कर्णप्रयागः इत्यादीनि १२ रेलस्थानकानि भविष्यन्ति। एषा परियोजना चतुर्धामयात्रां सुकरां करिष्यति। सामरिकदृष्ट्यापि अस्याः विशेषमहत्त्वम् अस्ति, यतः कर्णप्रयागः भारत-चीनसीमातः केवलं १२३ किलोमीटर दूरे स्थितः अस्ति।

मन्त्री अवदत् यत् हिमालयस्य भूगर्भीयसंरचना अत्यन्तं जटिला अस्ति। अत्र कठोरशिलानां स्थाने अनेकस्थानेषु मृदुर्मृत्तिका पङ्कसदृशं च पदार्थं प्राप्यते, येन सुरङ्गनिर्माणं समस्यापूर्णं भवति। अस्याः समस्यायाः समाधानाय प्रथमवारं टीबीएम् अर्थात् सुरङ्गखननयन्त्रस्य उपयोगः क्रियते। हिमालयस्य भौगोलिक-स्थितीनाम् अनुकूलतायै यन्त्रस्य कटरहेड्-भागे तथा धक्का-प्रणाल्यां विशेषपरिवर्तनानि कृतानि सन्ति।

अत्यन्तं कठिनः ११ किलोमीटर दीर्घः प्रथमः सुरङ्गमार्गः अस्ति, यः सघनजनवस्तेः अधः गच्छति। अस्य सुदृढीकरणाय सूक्ष्माधार-स्तम्भानां प्रयोगः क्रियते। द्वे टीबीएम्-यन्त्रे ‘शिवः’ ‘शक्तिः’ इति नामभ्यां नामिते स्तः।

Hindusthan Samachar / Divya Ranjan