Enter your Email Address to subscribe to our newsletters

- धामीसर्वकारेण अल्पसङ्ख्यकशिक्षा-प्राधिकरणस्य माध्यमेन नवीनपाठ्य-क्रमस्य मानकानि निर्धारितानि
देहरादूनम्, २२ अक्टोबरमासः (हि.स.)। उत्तराखण्डसर्वकारेण मदरसानां धार्मिक-शिक्षायाः पाठ्यक्रमाय नवीनानि मानकानि निर्धारितानि। मुख्यमन्त्री पुष्करसिंहधामी उक्तवान् यत् नवीनपाठ्यक्रमे हिंसायै, घृणायै कट्टर-वादाय च स्थानं नास्ति। प्रदेशे प्रेम्णः, सद्भावस्य राष्ट्रसेवायाश्च भावनया सह अग्रे गच्छन्तं नूतनवंशं निर्मातुं सर्वकारस्य उद्देश्यम् अस्ति।
मुख्यमन्त्री धामी उक्तवान् यत् सर्वकारेण पूर्वम् एव मदरसानां साप्ताहिकावकाशः शुक्रवासरस्य स्थाने रविवासरे निर्धारितः आसीत्। अनन्तरं मदरसामण्डलस्य स्थाने उत्तराखण्ड-अल्पसङ्ख्यकशिक्षा-प्राधिकरणस्य गठनं कृतम्। सर्वकारस्य अनुसारं अधुना पञ्जीकृतेषु मदरसासु राज्यसर्वकारेण निर्धारितपाठ्यक्रमानुसारं हिन्दी, गणितम्, विज्ञानम्, आङ्ग्लभाषा इत्यादीनां विषयाणाम् अध्ययनम् अनिवार्यम् अस्ति। धार्मिकशिक्षायै अपि पाठ्यक्रमः निर्धारितः अस्ति।
मुख्यमन्त्री उक्तवान् यत् राज्ये मदरसामण्डलस्य समाप्त्यनन्तरम् अल्पसङ्ख्यकशिक्षाप्राधिकरणस्य गठनं कृतम्। निर्धारितनियमानुसारं सर्वैः मदरसैः प्राधिकरणात् उत्तराखण्डविद्यालयीय-शिक्षामण्डलाच्च मान्यतां प्राप्तुम् अनिवार्यम् अस्ति। मदरसासु किं पाठनीयम् इत्यस्य निर्धारणाय अपि पाठ्यक्रमाः निर्मिताः सन्ति।
सः उक्तवान्, “अस्माकं सर्वकारस्य निर्णयः अस्ति यत् देवभूमौ प्रेम्णः सद्भावस्य च सन्देशं प्रसारयन्ती तथा राष्ट्रसेवायां योगदानं ददती नूतन: वंश: निर्मीयेत।”
उत्तराखण्ड-अल्पसङ्ख्यकशिक्षा-प्राधिकरणस्य अध्यक्षः प्रो. सुरजीत-सिंहगान्धी अवदत् यत् इस्लामीय-धार्मिकशिक्षायाः पाठ्यक्रमः विद्वद्भिः इस्लामीयविशेषज्ञैः सहकार्येण सज्जीकृतः अस्ति। अस्मिन् घृणायाः, हिंसायाः, कट्टरतायाः कटुतायाश्च संवर्धनं कुर्वत्यै शिक्षायै स्थानं न प्रदत्तम्। तेन उक्तं यत् इस्लामधर्मेण सह सिक्खधर्मस्य, बौद्धधर्मस्य, जैनधर्मस्य च शिक्षायै अपि नवीनाः पाठ्यक्रमाः सज्जीकृताः सन्ति।
अल्पसङ्ख्यकविभागस्य सचिवः डॉ. परागमधुकरधकाते उक्तवान् यत् मदरसासु प्रदीयमाना धार्मिकशिक्षा सामाजिकप्रेम्णः भ्रातृभावस्य च संवर्धिका भवेत्, न तु घृणायाः हिंसायाश्च। मुख्यमन्त्री धामी इत्यस्य दृष्टिकोणानुसारं विद्वज्जनानां सहयोगेन नवीनः पाठ्यक्रमः सज्जीकृतः इति तेन कथितम्।
सर्वकारेण मदरसानां मान्यताप्रदानाय शिक्षाविभागस्य अल्पसङ्ख्यकशिक्षा-प्राधिकरणस्य च नियमानां पालनम् अनिवार्यं कृतम्। अधिकारिणाम् अनुसारं मान्यतासम्बद्धानां शर्तानां पूर्तिं न कुर्वतां बहूनां मदरसानां गतिविधयः निरुद्धाः अभवन्।
Hindusthan Samachar / Divya Ranjan