Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २३ अक्टोबरमासः (हि.स.)। भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षः नितिननवीनः अक्टोबरमासस्य २३ दिनाङ्कतः २५ दिनाङ्कपर्यन्तं झारखण्ड-राज्यस्य राजधानीराँचीमहानगरे त्रिदिवसीयम् औपचारिकसङ्गठनात्मकं प्रवासं करिष्यति। अस्मिन् प्रवासकाले सः दलस्य प्रदेशस्तरीयैः जनपदस्तरीयैः च पदाधिकारिभिः सह सभां कृत्वा सङ्गठनस्य स्थितेः, अग्रिमकार्ययोजनानां राजनैतिकगतिविधीनां च विषये चर्चां करिष्यति। अस्य प्रवासस्य प्रमुखम् उद्देश्यम् सङ्गठनात्मकगतिविधीनां समीक्षां कर्तुं दलकार्यकर्तृभिः सह संवादं स्थापयितुं च अस्ति।
भाजपाद्वारा शुक्रवासरे निर्गते वक्तव्ये उक्तं यत् नितिननवीनः अक्टोबरमासस्य २३ दिनाङ्के सायंकाले राँचीमहानगरं प्राप्स्यति। विमानपत्तने दलकार्यकर्तारः तस्य स्वागतं करिष्यन्ति। राँचीं प्राप्त्यानन्तरं सः स्थानीयनेतृभिः सह सङ्गठनात्मकासु सभासु भागं ग्रहीष्यति।
प्रवासस्य द्वितीये दिने, अक्टोबरमासस्य २४ दिनाङ्के, राष्ट्रियाध्यक्षस्य कार्यक्रमः मुख्यतया सङ्गठनात्मकबैठकेन्द्रितः भविष्यति। प्रातः ११:४० वादने सः सुकुरहुतुस्थे राँचीहवेली-भोजशालायां दलस्य सर्वैः जनपदाध्यक्षैः जनपद-प्रभारिभिः च सह सभां करिष्यति। अस्यां सभायां सङ्गठनस्य वर्तमानस्थितेः, जनपदस्तरे प्रचलितानां गतिविधीनां दलस्य अग्रिमरणनीतेः च विषये चर्चा भवितुं सम्भावना अस्ति।
तदनन्तरं अपराह्णे ३ वादने नितिननवीनः तस्मिन्नेव स्थाने आयोज्यमानायां प्रदेशकार्यसमितेः सभायां भागं ग्रहीष्यति। अस्यां सभायां प्रदेशस्य वरिष्ठनेतृभिः कार्यसमितेः सदस्यैः च सह सङ्गठनात्मकगतिविधीनां, राज्यस्य राजनैतिकपरिदृश्यस्य भविष्यत्कार्य-योजनानां च विषये विचारविमर्शः भविष्यति। राष्ट्रियाध्यक्षः दलपदाधि-कारिभ्यः सङ्गठनात्मकप्राथमिकतानां कार्यकर्तॄणां भूमिकायाश्च विषये मार्गदर्शनम् अपि प्रदास्यति।
प्रवासस्य अन्तिमे दिने, अक्टोबरमासस्य २५ दिनाङ्के, नितिननवीनः राँचीमहानगरे निर्धारितेषु सङ्गठनात्मककार्यक्रमेषु भागं ग्रहीष्यति। अस्मिन् काले सः स्थानीयनेतृभिः सह चर्चां करिष्यति। एषः त्रिदिवसीयः प्रवासः प्रदेशस्तरात् आरभ्य जनपदस्तरपर्यन्तं सङ्गठनात्मक-समन्वयस्य सुदृढीकरणाय दलस्य गतिविधीनां समीक्षायै च महत्त्वपूर्णः मन्यते।
Hindusthan Samachar / Divya Ranjan