Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २३ अक्टोबरमासः (हि.स.)। भारतीयजनतापक्षेण रेहानवाड्रा इत्यस्य प्रदर्शिन्याः विषये काङ्ग्रेसस्य प्रियङ्कागान्धीवाड्रा इत्यस्याश्च आलोचना कृता। पक्षेण उक्तं यत् दिल्लीस्थ बीकानेरभवनाय प्रेषितेन रेहानवाड्रा इत्यस्य ईमेल-सन्देशेन प्रदर्शिन्याः प्रस्तावेन च स्पष्टं भवति यत् प्रारम्भे प्रदर्शिन्याः विषयवस्तौ किमपि राजनैतिकसामग्री न समाविष्टा आसीत्।
भाजपाप्रवक्ता प्रदीपभण्डारी शुक्रवासरे सामाजिकमाध्यममञ्चे ‘एक्स’ इत्यत्र एकस्मिन् सन्देशे अवदत् यत् रेहानवाड्रा २०२६ तमस्य वर्षस्य जूनमासस्य १० दिनाङ्के बीकानेरभवनाय ईमेल-सन्देशं सम्प्रेष्य अक्टोबरमासस्य २० दिनाङ्कतः २५ दिनाङ्कपर्यन्तं ‘नो आइडिया इज फाइनल’ इति नाम्नः प्रदर्शिन्याः प्रस्तावम् उपस्थापितवान्। प्रस्तावे प्रकृतेः, वन्यजीवानां, अमूर्तकलायाः, व्यक्ति-चित्राणां, मूर्तिकलायाः, निमग्नानुभव-प्रदानानां कलास्थापनानां च विषयाः उल्लिखिताः आसन्। तस्य कथनानुसारं बीकानेरभवनेन जूनमासस्य ३० दिनाङ्के ईमेल-माध्यमेन एषः प्रस्तावः स्वीकृतः आसीत्।
भण्डारी उक्तवान् यत् रेहानवाड्राय प्रदर्शिन्या: सम्बन्धिनः निर्देशाः ज्ञाताः आसन् तथा च सः विगतेभ्यः त्रिभ्यः वर्षेभ्यः प्रदर्शिन्याः योजनायां कार्यं कुर्वन् आसीत्। तेन आरोपितं यत् अनन्तरं पारिवारिकप्रभावस्य कारणेन प्रदर्शिन्यां राजनैतिकानि चित्राणि समाविष्टानि।
भण्डारिणः कथनानुसारं बीकानेरभवनेन अक्टोबरमासस्य २१ दिनाङ्के ईमेल-माध्यमेन एतानि चित्राणि निष्कासयितुं कथितम् आसीत्। बीकानेरभवनस्य कथनम् आसीत् यत् प्रदर्शिन्यां प्रदर्शितानि ७४ चित्राणि स्वीकृतविषयाणां नीत्याश्च अनुरूपाणि न सन्ति। भाजपानेता आरोपितवान् यत् प्रियङ्कागान्धीवाड्रा स्वपुत्रस्य रेहानस्य राजनैतिकप्रवेशं कारयितुं सम्पूर्णम् एतत् प्रकरणं विवादरूपं ददाति। तेन एतदपि उक्तं यत् प्रियङ्कायाः राहुलगान्धौ राजनैतिकविश्वासः समाप्तः अस्ति।
भण्डारी राहुलगान्धिनमपि लक्ष्यीकृत्य अवदत् यत् सः वियतनामदेशात् विविधेषु विषयेषु सामाजिकमाध्यमेषु प्रतिक्रियाः ददाति, किन्तु अद्यावधि रेहानवाड्रायाः समर्थनं कुर्वन् सः सार्वजनिकरूपेण किमपि सन्देशं न प्रकाशितवान्।
Hindusthan Samachar / Divya Ranjan