जनसंसदान् जनतायाः अधिकं समीपं नेतुं जीवन्तसम्बन्धान् च स्थापयितुं सन्देशं दास्यति ब्रिक्ससंसदीयमञ्चः।
नवदिल्ली, 23 अक्टूबरमासः (हि.स.)। ब्रिक्ससंसदीयमञ्चस्य आगामीसप्ताहे आयोज्यमाने शिखरसम्मेलने भारतस्य सन्देशः कृत्रिमबुद्धिमत्तायाः अङ्कीयप्रौद्योगिक्याश्च क्षेत्रे मानवकेन्द्रितनवाचारस्य प्रवर्धनं, विश्वस्य सर्वासां संसदां जनसामान्यस्य समीपं गमना
जनसंसदान् जनतायाः अधिकं समीपं नेतुं जीवन्तसम्बन्धान् च स्थापयितुं सन्देशं दास्यति ब्रिक्ससंसदीयमञ्चः।


नवदिल्ली, 23 अक्टूबरमासः (हि.स.)।

ब्रिक्ससंसदीयमञ्चस्य आगामीसप्ताहे आयोज्यमाने शिखरसम्मेलने भारतस्य सन्देशः कृत्रिमबुद्धिमत्तायाः अङ्कीयप्रौद्योगिक्याश्च क्षेत्रे मानवकेन्द्रितनवाचारस्य प्रवर्धनं, विश्वस्य सर्वासां संसदां जनसामान्यस्य समीपं गमनाय प्रेरणं, जनतायाः संसदां च मध्ये जीवन्तानां प्रगाढसम्बन्धानां स्थापनं च भविष्यति। एतेन संसदीयव्यवस्थायाः कार्यक्षमतायाः प्रासङ्गिकतायाश्च सुदृढीकरणं भविष्यति।

लोकसभाध्यक्षः ओमबिरला शुक्रवासरे अत्र कतिपयैः चयनितैः पत्रकारैः सह वार्तालापं कुर्वन् ब्रिक्ससंसदीयमञ्चस्य शिखरसम्मेलनस्य आयोजनविषये एतद् अवदत्।

लोकसभाध्यक्षः अवदत् यत् अन्तर्राष्ट्रीयभूराजनीतौ संसदीयराजनयस्य अपि महत्त्वपूर्णं स्थानम् अस्ति। सर्वकारेभ्यः भिन्नं संसदानां प्रतिनिधीनां मध्ये प्रत्यक्षः संवादः सम्बन्धितदेशानां जनतायाः अधिकं समीपस्थः अधिकं च समीचीनः भवति। भारतं विभिन्नैः देशैः सह निरन्तरं संसदीयसंवादं सम्पर्कं च स्थापयितुं चतुःषष्टिः संसदीयमैत्रीसमूहान् गठितवान् अस्ति। एते समूहाः कूटनीतिकक्षेत्रे प्रशंसनीयं योगदानम् अकुर्वन्। ऑपरेशनसिन्दूरस्य समये संसदीयसमूहैः विश्वस्य विभिन्नेषु देशेषु भारतस्य पक्षः अत्यन्तं प्रभावशालिरूपेण प्रस्तुतः आसीत्। अस्य सकारात्मकः सन्देशः प्रसृतः, वैश्विकजनमतस्य च प्रभावपूर्णं परिवर्तनम् अभवत्।

तेन इदमपि उक्तं यत् भारतं एतान् संसदीयमैत्रीसमूहान् अधिकं सशक्तान् सक्रियांश्च करिष्यति तथा आवश्यकता सति नूतनान् संसदीयमैत्रीसमूहान् अपि रचयिष्यति।

ओमबिरला अवदत् यत् द्वादशे ब्रिक्ससंसदीयमञ्चे लचीलापनम्, नवाचारः, सहकारिता, सातत्यं स्थायित्वं वा इत्येतेषु चतुर्षु विषयेषु पृथक् पृथक् चतुर्षु सत्रेषु चर्चा भविष्यति। प्रथमदिने त्रीणि सत्राणि भविष्यन्ति। प्रथमसत्रे संस्थागतलचीलापनस्य सुदृढीकरणे संसदां महत्त्वपूर्णभूमिकायाः विषये चर्चा भविष्यति। द्वितीयसत्रे कृत्रिमबुद्धिमत्तायाः अङ्कीयप्रौद्योगिक्याश्च क्षेत्रे मानवकेन्द्रितनवाचारस्य प्रवर्धने संसदां भूमिकायाः उपयोगितायाश्च विषये विचारविनिमयः भविष्यति। तृतीयसत्रे अधिकसमावेशिन्याः वैश्विकशासनव्यवस्थायाः निर्माणार्थं संसदीयसहकारितायाः उपयोगितायाः विषये चर्चा भविष्यति।

समापनदिने चतुर्थसत्रे सदस्यदेशानां सततं समावेशिनं च भविष्यं सुनिश्चितं कर्तुं संसदां भूमिकायाः विषये विचारविमर्शः भविष्यति। तेन उक्तं यत् अन्तिमदिने संयुक्तवक्तव्यं प्रकाशितं भविष्यति।

संसदीयमञ्चस्य सामूहिकसन्देशस्य भारतस्य योगदानस्य च विषये पृष्टः लोकसभाध्यक्षः अवदत् यत् भारतं संसदां सदस्याः च क्षमता वर्धयितुं, तेषाम् उत्तरदायित्वं सुदृढं कर्तुं, संसदः जनतायाश्च मध्ये निकटसम्बन्धं स्थापयितुं, संसदीयकार्यवाहीषु जनाकाङ्क्षाणां प्रतिबिम्बनं सुनिश्चितं कर्तुं च अनेकाः पहलाः प्रवर्तितवान् अस्ति। विश्वस्य विभिन्नदेशानां संसदः एताः पहलाः दृष्ट्वा स्वीकृतवत्यः च।

तेन उक्तं यत् ब्रिक्ससंसदीयमञ्चात् विश्वस्य सर्वासां संसदां कृते जनसामान्यस्य समीपं गन्तुं, जनतायाः संसदां च मध्ये जीवन्तानां प्रगाढसम्बन्धानां स्थापनं कर्तुं च सन्देशः प्राप्स्यते।

संसदानां मध्ये संवादः, परस्परं श्रेष्ठाचरणानां शिक्षणम्, वैश्विकचुनौतीनां विषये चर्चा, सांसदानां क्षमतावर्धनम्, कृत्रिमबुद्धिमत्तायाः अङ्कीयप्रौद्योगिक्याश्च मानवकेन्द्रितविकासः, संसदः जनसामान्यस्य समीपं गमनस्य सुनिश्चितीकरणं च एते प्रमुखाः विषयाः सन्ति। विभिन्नदेशाः स्वकीयपरिस्थितीनाम् अनुरूपम् एतान् विषयान् स्वीकर्तुं प्रेरयिष्यन्ते।

ओमबिरला एकस्य प्रश्नस्य उत्तरे अवदत् यत् ब्रिक्ससंसदीयमञ्चस्य शिखरसम्मेलने ब्रिक्सस्य षट् सदस्यदेशाः अष्टौ च विशेषनिमन्त्रितदेशाः भागं गृह्णन्ति। रूसदेशात् बृहत्तमं प्रतिनिधिमण्डलम् आगमिष्यति। चीनदेशस्य संसदः उपाध्यक्षः अपि आगमिष्यति, यः भारतात् अनन्तरं ब्रिक्ससंसदीयमञ्चस्य अध्यक्षतां स्वीकरिष्यति। तदतिरिक्तम् ईरानदेशस्य संसदाध्यक्षः अपि आगमिष्यति।

तेन उक्तं यत् सर्वेषां देशानां प्रतिनिधिमण्डलप्रमुखैः सह तस्य द्विपक्षीयोपवेशनानि अपि भविष्यन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani