बीकानेरस्य ऊष्ट्रमहोत्सवः जनवरी-मासस्य ८ तः १० दिनाङ्कपर्यन्तम् आयोजयिष्यते
बीकानेरम्, २३ अक्टोबरमासः (हि.स.)। बीकानेरनगरे अन्ताराष्ट्रियः ऊष्ट्र-महोत्सवः २०२७ तमस्य वर्षस्य जनवरी-मासस्य ८ दिनाङ्कतः १० दिनाङ्क-पर्यन्तम् आयोजयिष्यते। अस्मिन् महोत्सवे देशीयानां विदेशीयानां च पर्यटकानां अधिकाधिकसहभागितां सुनिश्चितुं अस्मिन् व
आठ से दस जनवरी तक होगा अंतर्राष्ट्रीय ऊंट उत्सव, विभिन्न नवाचारों से देंगे भव्य रूप : बीकानेर भुजिया महोत्सव 7 व 8 जनवरी काे


बीकानेरम्, २३ अक्टोबरमासः (हि.स.)। बीकानेरनगरे अन्ताराष्ट्रियः ऊष्ट्र-महोत्सवः २०२७ तमस्य वर्षस्य जनवरी-मासस्य ८ दिनाङ्कतः १० दिनाङ्क-पर्यन्तम् आयोजयिष्यते। अस्मिन् महोत्सवे देशीयानां विदेशीयानां च पर्यटकानां अधिकाधिकसहभागितां सुनिश्चितुं अस्मिन् वर्षे नूतनानाम् अभिनवप्रयोगाणां सह भव्यः कार्यक्रमः आयोजयिष्यते। महोत्सवस्य वैश्विकप्रचाराय पारम्परिक-माध्यमैः सह सामाजिकमाध्यममञ्चा-नामपि उपयोगः करिष्यते।

जनपदाधिकारी निशान्तजैनः शुक्रवासरे जनपदपर्यटनविकाससमितेः सभायां महोत्सवस्य सज्जतानां समीक्षां कुर्वन् अधिकारिभ्यः तस्य रूपरेखां शीघ्रमेव अन्तिमरूपं दातुं निर्देशान् दत्तवान्। सः अवदत् यत् ऊष्ट्रमहोत्सवः बीकानेर-नगराय विशिष्टं परिचयं प्रददाति। अस्य व्यापकप्रचारप्रसारेण सह पर्यटकानां सहभागितावर्धने विशेषं ध्यानं दातव्यम्।

जनपदाधिकारी सूचितवान् यत् महोत्सवात् पूर्वं जनवरीमासस्य ७ तथा ८ दिनाङ्कयोः ग्रामीणहाटे बीकानेरीभुजिया-महोत्सवः आयोजयिष्यते। उद्योगवाणिज्य-केन्द्रस्य तत्त्वावधाने आयोज्यमाने अस्मिन् कार्यक्रमे भुजियानिर्माणस्य, पुटीकरणस्य विपणनस्य च प्रायोगिकं प्रदर्शनं करिष्यते। सहैव प्रतिभागिभ्यः आवश्यकं मार्ग-दर्शनमपि प्रदास्यते। अस्मिन् कार्यक्रमे भुजियाव्यापारिणः निर्मातारश्च आमन्त्र-यिष्यन्ते। भुजियाउद्योगसम्बद्धेषु विविध-विषयेषु संवादः अपि भविष्यति।

बैठके नगरस्य ऐतिहासिकधरोहरस्य संरक्षणविषयेऽपि चर्चा अभवत्। जनपदाधिकारी नगरनिगमस्य धरोहर-प्रकोष्ठं शीघ्रं प्रारब्धुं तत्सम्बद्धानाम् उपविधीनां च अन्तिमरूपं शीघ्रं निर्धारयितुं निर्देशान् दत्तवान्। पर्यटकानां सुविधायै नगरे गृहवासव्यवस्थायाः अतिथिगृहाणां च उपलब्धतां वर्धयितुं सहितं पर्यटनविकास-सम्बद्धेषु अन्येषु विषयेष्वपि चर्चा कृता। पर्यटनविभागस्य उपनिदेशकः कृष्ण-कुमारः जनपदस्य पर्यटनपरिदृश्यस्य भावियोजनानां च विषये सूचनाः दत्तवान्।

सभायां नगरनिगमायुक्तः सिद्धार्थ-पलनीचामी, बीकानेरविकासप्राधि-करणस्य आयुक्ता स्नेहलधायगुडे नाना, पर्यटनविभागस्य सहायकनिदेशकः महेशव्यासः इत्यादयः अन्ये अधिकारिणश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan