Enter your Email Address to subscribe to our newsletters

पाटलिपुत्रम्, २३ अक्टोबरमासः (हि.स.)। बिहारस्य प्रथममुख्यमन्त्री स्वतन्त्रता-सेनानी च श्रीकृष्णसिंहस्य जयन्त्यवसरे काङ्ग्रेसदलेन व्यापकाः सज्जताः कृताः सन्ति। शुक्रवासरे आयोजिते वार्ताहर-सम्मेलने प्रदेशाध्यक्षः राजेशरामः राज्यसभासदस्यः डॉ. अखिलेशप्रसादसिंहश्च संयुक्तरूपेण सूचितवन्तौ यत् अक्टोबर-मासस्य २५ दिनाङ्के दलस्य राष्ट्रियाध्यक्षः मल्लिकार्जुनखरगे इत्यनेन सह अनेके वरिष्ठनेतारः पाटलिपुत्रे आयोज्यमाने जयन्तीसमारोहे सम्मिलिताः भविष्यन्ति।
अस्मिन्नवसरे प्रदेशाध्यक्षः राजेशरामः अवदत् यत् श्रीबाबुः भूमिस्वामित्व-व्यवस्थायाः उन्मूलनेन, सामाजिकन्यायेन औद्योगिकक्रान्त्या च आधुनिकबिहारस्य आधारशिलां स्थापितवान्।
वार्ताहरसम्मेलनं सम्बोधयन् पूर्वप्रदेशा-ध्यक्षः राज्यसभासदस्यश्च डॉ. अखिलेश-प्रसादसिंहः अवदत् यत् श्रीबाबुना देवघरमन्दिरस्य द्वारं दलितजनानां कृते उद्घाट्य सामाजिकन्यायस्य एतादृशी क्रान्तिः प्रारब्धा, येन समतामूलक-समाजस्य निर्माणस्य मार्गः प्रशस्तः अभवत्। डॉ. सिंहः अवदत् यत् तेन स्वयं विंशत्यधिकानां जनपदानां भ्रमणं कृत्वा जनान् समारोहाय आमन्त्रणं प्रदत्तम्।
दलस्य माध्यमविभागाध्यक्षः अजयकुमार-पासवानः, माध्यमसंयोजकः असितनाथ-तिवारी, वरिष्ठनेतारः ब्रजेशपाण्डेयः, बरकतखानः, शरवतजहाँफातिमा, पङ्कज यादवः, डॉ. विनीताभगता, नदीमअन्सारी, धर्मवीरशुक्लः, अमितकुमारः, सामन्त-प्रधानः, निधिपाण्डेयः इत्येतै: च सह अनेके वरिष्ठनेतारः अस्मिन् सम्मेलने उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan