Enter your Email Address to subscribe to our newsletters

जयपुरम्, २३ अक्टोबरमासः (हि.स.)। राज्ये सामाजिकन्यायाधिकारिताविभागेन सञ्चालितानां विविधछात्रवृत्तियोजनानाम् अन्तर्गतं २०२४-२५ तथा २०२५-२६ तमयोः शैक्षणिकसत्रयोः कृते विद्यार्थिनः अधुना नवम्बरमासस्य ३० दिनाङ्कपर्यन्तं छात्रवृत्तिप्रवेशपुटे स्वकीयाम् जैवमिती-योपस्थितिं पञ्जीकर्तुं शक्नुवन्ति।
विभागस्य निदेशकः संयुक्तशासनसचिवश्च ललितकुमारः अवदत् यत् विद्यार्थिनां हितानि ध्यात्वा अन्तिमतिथिविस्तारस्य निर्णयः कृतः। अस्य उद्देश्यं आवश्यक-प्रक्रियां पूर्णां कर्तुं आवश्यकताम् अनुभवन्तः विद्यार्थिनः अतिरिक्तसमयं लभेरन् इति अस्ति। विभागेन सञ्चालितासु विविधासु छात्रवृत्तियोजनासु पात्रैः विद्यार्थिभिः अधुना नवम्बरमासस्य ३० दिनाङ्कपर्यन्तं प्रवेशपुटे स्वकीयाम् जैवमितीयोपस्थितिं पञ्जीकर्तव्यम्।
अतः विद्यार्थिभिः अन्तिमतिथेः प्रतीक्षां विना समये एव एषा प्रक्रिया पूर्णा करणीया, येन छात्रवृत्तिसम्बद्धासु औपचारिकतासु किमपि कष्टं न भवेत्। तिथिविस्तारस्य अनेन निर्णयेन छात्रवृत्तियोजनानां लाभं प्राप्नुवद्भ्यः विद्यार्थिभ्यः प्रक्रिया पूर्णां कर्तुम् अतिरिक्तः अवसरः प्राप्स्यते।
Hindusthan Samachar / Divya Ranjan