Enter your Email Address to subscribe to our newsletters

धर्मशाला, २३ अक्टोबरमासः (हि.स.)। काङ्गडाविमानपत्तनस्य प्रस्तावित-विस्तारस्य परिधौ आगच्छन्तः त्रयः प्राथमिकविद्यालयाः अन्यत्र स्थानान्तरितुं सज्जता क्रियते। इच्छी, गग्गल तथा रछियालू इत्येतेषां प्राथमिकविद्यालयानां स्थानान्तरणार्थं शिक्षाविभागेन प्रस्तावः सज्जीकृतः अस्ति। अयं प्रस्तावः स्वीकृत्यर्थं प्रदेशसर्वकाराय प्रेषयिष्यते। सर्वकारस्य अनुमतिं निर्देशांश्च प्राप्ते एव विद्यालयानां स्थानान्तरणस्य प्रक्रिया आरप्स्यते।
प्रारम्भिकशिक्षायाः उपनिदेशकः बल-विन्दरसिंहगुलेरिया अवदत् यत् विमानपत्तनस्य प्रस्तावितविस्तारस्थलस्य परिधौ त्रयः प्राथमिकविद्यालयाः आग-च्छन्ति। विद्यार्थिनां अध्ययनं प्रभावितं न भवेत्, एतदर्थं विभागेन वैकल्पिकस्थानेषु विद्यालयानां स्थानान्तरणस्य योजना निर्मीयते। विद्यार्थिभ्यः उत्तमाः शैक्षणिकसुविधाः प्रदातुं तथा च विमानपत्तनस्य विस्तारकार्ये कापि बाधा न भवेत् इति अस्याः योजनायाः उद्देश्यम् अस्ति।
ते अवदन् यत् इच्छीप्राथमिकविद्यालयं प्रायः ५०० तः ६०० मीटरपरिमिते दूरे स्थिते बल्ला-मटौर-विद्यालये स्थानान्तरयितुं विचारः क्रियते। बल्ला-मटौर-विद्यालयस्य भवनं समुचितावस्थायाम् अस्ति तथा च तत्र प्राकारः अपि निर्मितः अस्ति। अतः इच्छीविद्यालयस्य विद्यार्थिनः अत्र स्थानान्तरयितुं सम्भावना अन्विष्यते।
गग्गलप्राथमिकविद्यालये तु विद्यार्थिनां सङ्ख्या न्यूनीभवति। अत्र पठन्तः अधिकांशाः बालकाः प्रवासिकुटुम्बेभ्यः सम्बन्धिनः सन्ति। भविष्ये विद्यार्थिनां सङ्ख्यायां वृद्धेः सम्भावनां दृष्ट्वा विभागेन वैकल्पिकव्यवस्थायाः प्रस्तावः अपि सज्जीकृतः अस्ति। तदनुसारं गग्गल-विद्यालयं प्रायः सार्धैककिलोमीटरपरिमिते दूरे चैतडूनगरस्य समीपे स्थिते कन्दरहेड-केन्द्रीयप्राथमिकविद्यालये स्थानान्तरयितुं विचारः क्रियते। अस्मिन् विद्यालये पर्याप्तानि कक्ष्यागृहाणि क्रीडाङ्गणस्य च सुविधा उपलब्धा अस्ति।
रछियालूप्राथमिकविद्यालयस्य स्थानान्त-रणार्थमपि विभागेन उपयुक्तभवनस्य स्थानस्य च अन्वेषणं क्रियते। बलविन्दरसिंहगुलेरिया अवदत् यत् त्रयाणां विद्यालयानां स्थानान्तरणसम्बद्धः प्रस्तावः सर्वकाराय प्रेषयिष्यते। स्वीकृतिं प्राप्ते एव विद्यार्थिनां शिक्षकाणां च वैकल्पिक-विद्यालयेषु स्थानान्तरणस्य प्रक्रिया आरप्स्यते।
Hindusthan Samachar / Divya Ranjan