विदिशायाः कन्याप्रधानस्नातकोत्तरमहाविद्यालयस्य अपरमुख्यसचिवेन अनुपमराजनेन कृतम् आकस्मिकनिरीक्षणम्
महाविद्यालयस्य शैक्षणिकक्रिया-कलापानां, छात्रासुविधानां व्यवस्थानां च निरीक्षणम्; छात्राभिः प्राचार्यैश्च सह संवादः विदिशा, २३ अक्टोबरमासः (हि.स.)। मध्यप्रदेशे सञ्चालितस्य जनविश्वासा-भियानस्य अन्तर्गतं उच्चशिक्षाविभागस्य अपरमुख्यसचिवः अनुपमराजनः
विदिशाः अपर मुख्य सचिव अनुपम राजन ने किया कन्या अग्रणी स्नातकोत्तर महाविद्यालय का औचक निरीक्षण


- महाविद्यालयस्य शैक्षणिकक्रिया-कलापानां, छात्रासुविधानां व्यवस्थानां च निरीक्षणम्; छात्राभिः प्राचार्यैश्च सह संवादः

विदिशा, २३ अक्टोबरमासः (हि.स.)। मध्यप्रदेशे सञ्चालितस्य जनविश्वासा-भियानस्य अन्तर्गतं उच्चशिक्षाविभागस्य अपरमुख्यसचिवः अनुपमराजनः शुक्र-वासरे विदिशायां राजमाता विजयाराजे सिन्धिया शासकीयकन्या-प्रधान-स्नातकोत्तरमहाविद्यालयस्य आकस्मिक-निरीक्षणं कृतवान्। सः महाविद्यालयस्य शैक्षणिकक्रियाकलापानाम्, उपलब्ध-संसाधनानाम्, प्रशासनिकव्यवस्थानां छात्राभ्यः प्रदीयमानसुविधानां च विषये सूचनाः प्राप्तवान्।

महाविद्यालयस्य प्राचार्यः डॉ. बी.डी. अहिरवारः अपरमुख्यसचिवम् अनुपम-राजनं परिसरस्य भ्रमणं कारितवान्। अस्मिन् अवसरे सः वाणिज्यसङ्कायस्य छात्राभिः निर्मितानां विविधव्यावसायिक-प्रतिमानानाम्, गृहविज्ञानसङ्कायस्य छात्राभिः निर्मितानां पौष्टिकव्यञ्जनानां तथा पुस्तकालये आयोजिताया: पुस्तक-प्रदर्शिन्याः च अवलोकनं कृतवान्। सः छात्राणां प्रयासानां प्रशंसाम् अपि कृतवान्।

सः कक्षाणां प्रयोगशालानां च निरीक्षणं कृत्वा अध्यापनस्य प्रायोगिककार्याणां च स्थितिम् अवलोकितवान्। प्राचार्येण महाविद्यालये सञ्चालितानां शैक्षणिकानां सहपाठ्यक्रमीयक्रियाकलापानां प्रयोग-शालानां सुचारुसञ्चालनस्य च विषये सूचना प्रदत्ता। कक्षाणां नियमितं सुव्यवस्थितं च सञ्चालनं दृष्ट्वा अपरमुख्यसचिवः सन्तोषं व्यक्तवान्।

छात्राभिः सह संवादं कृत्वा शैक्षणिकानां छात्रवृत्तिसम्बद्धानां च समस्यानां विषये सूचनां प्राप्तवान्

निरीक्षणकाले अनुपमराजनेन छात्राभिः सह प्रत्यक्षः संवादः कृतः। सः तासां अध्ययनस्य, निजीशिक्षणस्य, प्रतियोगिता-परीक्षाणां सज्जतायाः, छात्रवृत्तियोजनानां तथा अध्ययनसम्बद्ध-समस्यानां च विषये सूचनां प्राप्तवान्। छात्राः स्वकीयाः आवश्यकताः अपेक्षाश्च तस्मै अवगतवत्यः। राजनेन तासां कथनं गम्भीरतया श्रुतम् तथा आवश्यकविषयेषु सूचनाः प्राप्ताः।

ताइक्वाण्डो-योगप्रशिक्षणस्य अवलोकनम्

अपरमुख्यसचिवः राजनः महाविद्यालयस्य बहु-उद्देशीयभवनस्य क्रीडाविभागस्य च अन्तर्गतं सञ्चालितानां ताइक्वाण्डो-योगप्रशिक्षणक्रियाकलापानाम् अपि अवलोकनं कृतवान्। एताभिः गतिविधिभिः छात्रासु शारीरिकस्वास्थ्यस्य, आत्म-विश्वासस्य, अनुशासनस्य व्यक्तित्व-विकासस्य च संवर्धनं क्रियते। सः उपलब्धसंसाधनानाम् उपयोगस्य तथा छात्राभ्यः शिक्षया सह क्रीडायाः शारीरिकप्रशिक्षणस्य च अवसरान् प्रदातुं क्रियमाणानां प्रयासानां विषये सूचनां प्राप्तवान्।

पाठ्यक्रमाणां, छात्रवृत्तियोजनानां कार्या-लयीयव्यवस्थानां च समीक्षा

प्राचार्यः डॉ. बी.डी. अहिरवारः महाविद्यालये सञ्चालितानां विविधपाठ्यक्रमाणां, छात्र-वृत्तियोजनानां, तासां प्रगतेः कार्यालयीय-व्यवस्थानां च विषये अपरमुख्यसचिवाय सूचनाः प्रदत्तवान्। सः अवदत् यत् महाविद्यालयप्रशासनस्य प्रयासः अस्ति यत् छात्राभ्यः गुणवत्तापूर्णशिक्षया सह उत्तमाः शैक्षणिकसुविधाः आवश्यकसंसाधनानि च प्रदेयानि, येन तासां बौद्धिकः, शारीरिकः सर्वाङ्गीणश्च विकासः सुनिश्चितः भवेत्।

Hindusthan Samachar / Divya Ranjan