Enter your Email Address to subscribe to our newsletters

छायायुक्तमतदातृसूच्याः विशेषसंक्षिप्त-पुनरीक्षणकार्यक्रमस्य घोषणा, नवम्बर-मासस्य १२ दिनाङ्कतः दिसम्बरमासस्य ११ दिनाङ्कपर्यन्तं कथनम् आपत्तयश्च स्वीकृताः भविष्यन्ति
बीजापुरम्, २३ अक्टोबरमासः (हि.स.)। नवदिल्ल्यां स्थितस्य भारतनिर्वाचना-योगस्य निर्देशानुसारं छत्तीसगढराज्ये अर्हतातिथिं २०२७ तमस्य वर्षस्य जनवरीमासस्य १ दिनाङ्कं निर्धारित्य छायाचित्रयुक्तानां निर्वाचक-नामावलीनां विशेषसंक्षिप्तपुनरीक्षण-कार्यक्रमस्य घोषणा कृता अस्ति। अस्मिन् सन्दर्भे आयोगेन निर्धारितः पुनरीक्षण-कार्यक्रमः अपि प्रकाशितः।
छायाचित्रयुक्तानां निर्वाचकनामावलीनां विशेषसंक्षिप्तपुनरीक्षणस्य अन्तर्गतं मतदातृसूच्याः प्रारम्भिकं प्रकाशनं २०२६ तमस्य वर्षस्य नवम्बरमासस्य १२ दिनाङ्के गुरुवासरे भविष्यति। प्रकाशनानन्तरं नवम्बरमासस्य १२ दिनाङ्कतः दिसम्बरमासस्य ११ दिनाङ्कपर्यन्तं मतदातृभ्यः कथनम् आपत्तयश्च स्वीकरिष्यन्ते। अस्मिन् अवधौ मतदान-केन्द्रेषु बूथस्तरीयाधिकारिणः तथा प्राधिकृताधिकारिणः प्रारूपपत्रैः ६, ७, ८ सह उपस्थिताः भविष्यन्ति। प्राप्तानां कथनानाम् आपत्तीनां च निराकरणं दिसम्बरमासस्य २८ दिनाङ्कपर्यन्तं करणीयम्। मतदातृसूच्याः अन्तिमं प्रकाशनं २०२७ तमस्य वर्षस्य जनवरीमासस्य ४ दिनाङ्के भविष्यति।
२०२७ तमस्य वर्षस्य जनवरीमासस्य १ दिनाङ्के येषां मतदातॄणां वयः १८ वर्षाणि पूर्णं भविष्यति तथा येषां भारतीय-नागरिकाणां नाम केनापि कारणेन अद्यावधि मतदातृसूच्यां न समाविष्टम् अस्ति, ते स्वनाम मतदातृसूच्यां समावेशयितुं प्रारूपपत्रं ६ पूरयित्वा सम्बन्धिततथ्यानां प्रतिलिपिभिः सह समर्पयेयुः। मतदातृसूच्यां नाम, उपनाम, वयः, लिङ्गम्, जन्मतिथिः, छायाचित्रम् अथवा अन्यासु प्रविष्टिषु त्रुटीनां संशोधनाय प्रारूपपत्रं ८ पूरणीयम्। मतदातृसूच्याः नाम विलोपयितुं प्रारूपपत्रं ७ पूरणीयम्।
मतदातृभ्यः विशेषसूचना
मतदातारः वोटर हेल्पलाइन-मोबाइल-अनुप्रयोगस्य अथवा Voters.eci.gov.in इत्यस्य माध्यमेन आवेदनं कर्तुं शक्नुवन्ति। यदि मतदातुः नाम, उपनाम, जन्मतिथिः इत्यादीनां संशोधनम् अपेक्षितम् अस्ति, तर्हि प्रारूपपत्रे ८ सम्यक् विवरणं पूरणीयम्। मृतानां स्थानान्त-रितानां च मतदातॄणां नामविलोपनसम्बद्धा कार्यवाही प्रारूपपत्रेण ७ क्रियते।
नवीनमतदातॄणां पञ्जीकरणाय प्रारूपपत्रं ६ निर्धारितम् अस्ति। दिव्याङ्गमतदातॄणां सुविधायै १९५० इति मतदातृसहायता-दूरभाषसङ्ख्यामाध्यमेन सेवा प्रदीयते।
२०२७ तमस्य वर्षस्य जनवरीमासस्य १ दिनाङ्कम् अर्हतातिथिं निर्धारित्य निर्वाचकनामावलीनां पुनरीक्षणकाले सर्वेषु मतदानकेन्द्रेषु बूथस्तरीया-धिकारिभिः सर्वेषां पात्रमतदातॄणां पञ्जीकरणं, मतदातृसूच्याः सत्यापनं, त्रुटीनां संशोधनं तथा मृतानां, स्थानान्तरितानां, द्विरुक्तप्रविष्टियुक्तानां च मतदातॄणां नामविलोपनं करिष्यते।
मतदातृसूच्याः अथवा विशेषसंक्षिप्त-पुनरीक्षणकार्यक्रमस्य विषये मतदातारः निर्वाचनायोगस्य निःशुल्क-सहायता-दूरभाषसङ्ख्यायाः १९५० माध्यमेन सूचनां प्राप्तुं शक्नुवन्ति। अथवा जनपद-निर्वाचनकार्यालयात्, तहसीलदारस्य कार्यालयात् तथा सहायकपञ्जीकरणा-धिकारिणः कार्यालयात् प्रत्यक्षतया सूचनां प्राप्तुं शक्नुवन्ति।
अस्य कार्यक्रमस्य विषये विधानसभा-निर्वाचनक्षेत्रस्य ८९ क्रमाङ्कस्य बीजापुरस्य सर्वेषां प्रमुखराजनैतिकदलानां प्रतिनिधिभिः सह सभा आयोजिता। तस्यां सभायां २०२७ तमस्य वर्षस्य जनवरीमासस्य १ दिनाङ्कम् अर्हतातिथिं निर्धारित्य छायाचित्रयुक्तानां निर्वाचक-नामावलीनां विशेषसंक्षिप्तपुनरीक्षण-कार्यक्रमस्य विषये सूचना प्रदत्ता।
Hindusthan Samachar / Divya Ranjan